________________
कर्मप्रकृतिः ॥५३॥
ऽधिकान्तर्मुहूर्तोनेति प्राप्नोति कथमुच्यतेऽन्तर्मुहूर्तोनेति ? नैष दोषः, यत आवलिकाप्रक्षेपेऽपि तदन्तर्मुहूर्तमेव केवलं बृहत्तरमवगन्तव्य - | मिति । एवं देवानुपूर्व्या अपि वाच्यम् । तथा कश्चिन्नरकानुपूर्व्या उत्कृष्टां स्थितिं विंशतिसागरोपमकोटी कोटी प्रमाणां बद्ध्वा ततः शुभपरिणामविशेषतो मनुष्यानुपूर्व्या उत्कृष्टां स्थितिं पञ्चदश सागरोपम कोटी कोटी प्रमाणां बद्धुमारभते । ततस्तस्यां मनुष्यानुपूर्वीस्थितौ | बध्यमानायामावलिकाया उपरि बन्धावलिकाही नामावलिकात उपरितनीं सकलामपि नरकानुपूर्वीस्थितिं संक्रमयति । ततो मनुष्यानुपूर्व्या अपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता । मनुष्यानुपूर्वी च बध्नन् जघन्येनाप्यन्तर्मुहूर्तं कालं यावद्भनाति, तच्चान्तर्मुहूर्तमावलिकोनविंशतिसागरोपमकोटी कोट्यानुय्यति । बन्धानन्तरं च कालं कृत्वा मनुष्यानुपूर्वीमनुभवतस्तस्या उत्कृष्टा स्थितिरन्तर्मुहूर्तोना विंशतिसागरोपमकोटी कोटी प्रमाणा उदीरणायोग्या । ननु मनुष्यगतेरपि पञ्चदशसागरोपमकोटीकोटथो बन्धेनोत्कृष्टा स्थितिः प्राप्यते, तथा मनुष्यानुपूर्व्या अपि न त्वेकस्या अपि विंशतिः । तत उभे अपि संक्रमोत्कृष्टे, संक्रमोत्कृष्टत्वाविशेषे च कथं मनुष्यगतेरिव मनुष्यानुपूर्व्या अपि आवलिकात्रिकहीनोत्कृष्टा स्थितिरुदीरणायोग्या न भवति ? तदयुक्तं, मनुष्यानुपूर्व्या अनुदयसंक्रमोत्कृष्टत्वात् । तदुक्तं - " " मणुयाणुपुवि मोसम आहारग- देवजुयल - विगलाणि । सुडुमातितिगं- तित्थं अणुदय संकमणुकोसा ॥ " | अनुदय संक्रमोत्कृष्टानां च जघन्यतोऽप्यन्तर्मुहूर्तानाया एवोत्कृष्टस्थितेरुदीरणायोग्यत्वात् । मनुष्यगतिस्तूदयसंक्रमोत्कृष्टा । तदुक्तं"" मगर सायं सम्मं थिर हासा इच्छ वेय सुभखगई। रिसभच उरंसगाईपणुच्चुदय संकमुकोसा ॥ ततस्तस्या आवलिकात्रिकहीनैवोत्कृष्टा स्थितिरुदीरणायोग्या भवतीति । एवमातपादीनामप्यन्तर्मुहूर्तोना उत्कृष्टा स्थितिरुदीरणायोग्या भावनीया । नन्वनुदयसंक्रमोत्कृष्टस्थि
१ पञ्चसंग्रह बन्धव्यद्वार गा० ६३ २ गा० ६२..
mah
स्थित्युदी
रणा
॥५३॥