SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥५०॥ SOGONA DIVA टस्थितिबन्धानन्तरं चान्तर्मुहूर्ते व्यतिक्रान्ते सति तिसृष्वधस्तनपृथिवीषु मध्येऽन्यतरस्यां पृथिव्यां समुत्पन्नः, तस्य प्रथमसमये नरकगतेरन्तर्मुहूर्तहीना सर्वाऽपि स्थितिविंशतिसागरोपमकोटीकोटीप्रमाणा उदीरणायोग्या भवति । नरकानुपूाश्चापान्तरालगतौ समय-1 स्थित्युदीवयं यावदुत्कृष्टा स्थितिरुदीरणायोग्या । अधस्तनपृथिवीत्रयग्रहणे किं प्रयोजनमिति चेद्, उच्यते-इह नरकगत्यादीनामुत्कृष्टां स्थिति बध्नन्नवश्यं कृष्णलेश्यापरिणामोपेतो भवति । कृष्णलेश्यापरिणामोपेतश्च कालं कृत्वा नरकेषत्पद्यमानो जघन्यकृष्णलेश्यापरिणामः | पञ्चमपृथिव्यामुत्पद्यते । मध्यमकृष्णलेश्यापरिणामः षष्ठपृथिव्यां । उत्कृष्टकृष्णलेश्यापरिणामः सप्तमपृथिव्यामित्यधस्तनपृथिवीजयग्रहणं ॥३२॥ (उ०)–कृता साधनादिप्ररूपणा, अथाद्धाच्छेदं स्वामित्वं च प्रतिपादयन्नाह–अद्धाच्छेदः स्वामित्वं च यथा स्थितिसंक्रमे प्रोक्तं तथैवात्राप्यवसेयम् । नवरमयं भेदः-संक्रमकरणे तदवेदिष्यपि स्थितिसंक्रम उक्तः, उदयाभावेऽपि संक्रमोपपत्ते, उदीरणा त्वेषां तद्वेदिष्वेव द्रष्टव्या, उदयाभावे उदीरणाया अभावात् । इदमतिसंक्षिप्योक्तमिति किश्चिद्वितत्योच्यते-तत्र स्वोदयबन्धोत्कृष्टानां ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयतैजससप्तकवर्णादिविंशतिनिर्माणास्थिराशुभागुरुलघुमिथ्यात्वकषायषोडशकत्रसचतुष्कदुर्भगचतुष्कवैक्रि | यसप्तकपञ्चेन्द्रियजातिहुण्डोपघातपराघातोच्छ्वासातपोद्योताशुभविहायोगतिनीचैर्गोत्ररूपाणां पडशीतिप्रकृतीनां बन्धावलिकायामतीता| यामुदयावलिकात उपरितनी सर्वाऽपि स्थितिरुदीरणाप्रायोग्या तानि कर्माणि वेदयमानानां वेदितव्या । बन्धावलिकारहिता च सर्वा |स्थितियस्थितिः । इहावलिकाद्विकरूपोऽद्धाच्छेदस्तदुदयवन्त उदीरणास्वामिनः । उदये सति संक्रमोत्कृष्टस्थितिकानां तु मनुजगतिसात- ॥५०॥ | वेदनीयस्थिरादिषद्कहास्यादिषद्कवेदत्रयशुभविहायोगतिप्रथमसंस्थानपश्चकप्रथमसंहननपञ्चकोचैर्गोत्ररूपाणामेकोनत्रिंशत्प्रकृतीनामाव
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy