________________
CREADACARAKCERICA
लिकात्रिकहीना सर्वा स्थितिरुदीरणाप्रायोग्या तानि कर्माणि वेदयमानानां वेदितव्या । अत्र बन्धावलिकासंक्रमावलिकारहिता सर्वा | स्थितियस्थितिः, इहावलिकात्रिकरूपोऽद्धाच्छेदस्तदुदयवन्त उदीरणास्वामिनः । एवमग्रेऽपि यावान् यावानुदीरणानहः कालस्तावाँस्तावानद्धाच्छेदस्तदुदयवन्तश्चोदीरणास्वामिनोऽवसेयाः । तथा सप्ततिसागरोपमकोटीकोटीप्रमाणां मिथ्यादृष्टिमिथ्यात्वस्थिति बद्धाऽन्तमुहूर्त यावन्मिथ्यात्व एव स्थित्वा सम्यक्त्वं प्रतिपद्यते । ततः सम्यक्त्वे सम्यग्मिथ्यात्वे चान्तर्मुहूर्तोनां मिथ्यात्वस्थिति सकलामपि संक्रमयति, संक्रमावलिकायां चातीतायां तदुदीरणा प्रवर्तते, ततः संक्रमावलिकातिक्रमेऽपि साऽन्तर्मुहूर्तीनैवेति सम्यक्त्वमनुभवतः सम्यक्त्वस्यान्तर्मुहूर्तोना सप्ततिसागरोपमकोटाकोटीप्रमाणोत्कृष्टा स्थितिदीरणायोग्या। ततः कश्चित्सम्यक्त्वेऽप्यन्तर्मुहूर्त स्थित्वा सम्यग्मिथ्यात्वं गच्छति । ततः सम्यग्मिथ्यात्वमनुभवतः सम्यग्मिथ्यात्वस्यान्तर्मुहर्तद्विकोना सप्ततिसागरोपमकोटाकोटिप्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या । उक्तं च-"अंतोमुहुत्तहीणा सम्मे मीसम्मि दोहिं मिच्छस्स"। मिथ्यात्वस्योत्कृष्टस्थितिरन्तर्मुहर्लोना सम्यक्त्वे, मिश्रे च द्वाभ्यामन्तर्मुहूर्त्ताभ्यामूनोदीरणायोग्येत्येतदक्षरार्थः । तथाऽऽहारकसप्तकं स्वयोग्योत्कृष्टसंकलेशेनाप्रमत्तेन सतो. स्कृष्टस्थितिकं बद्ध्वा तत्कालोत्कृष्टस्थितिकस्वमूलप्रकृत्यभिन्न प्रकृत्यन्तरदलिकं च तत्र संक्रमय्य सर्वोत्कृष्टान्तःसागरोपमकोटाकोटिस्थितिकं करोति । ततो बन्धानन्तरमन्तर्मुहूर्तमतिक्रम्याहारकशरीरं कर्तुमुद्यतते, तच्च कुर्वन् लब्ध्युपजीवनौत्सुक्यभावेन प्रमादं भजते, ततस्तस्य प्रमत्तस्य सत आहारकशरीरं कुर्वत आहारकसप्तकस्यान्तमुहत्तोंनोत्कृष्टा स्थितिरुदीरणायोग्या। अत्र प्रमत्तस्याहारकशरीरारम्भकत्वादुत्कृष्टस्थित्युदीरणास्वामी प्रमत्तसंयत एव द्रष्टव्यः । अशिष्टप्रकृतीनां सूत्रकृदेव विशेषमाचष्टे-'निरयगईइ वा वि'
१ पञ्चसंग्रह उदीरणाकरण गा० २९
DOHOSDOSDISORD
ER