________________
पार. तो०
॥१७९.
ऽत्यद्भुतं दृष्टमेतत् ॥ ३ ॥ प्रजुस्त्वं गुरुस्त्वं पिता त्वं त्वमम्बा सखा त्वं सुबन्धुः शरण्यो वरेण्यः ॥ नवात्तारको वारकोऽमित्रजीते स्त्वमेव त्वमेव त्वमेव त्वमेव ॥ ४ ॥ जनोयं तवादेशवर्ती पुरस्थो नियोज्य स्ततो नो वियोज्यः कदापि ॥ सदा किंकरस्ते प्रनो पार्श्वचन्द्रः करोतीतिविज्ञप्तिमेतां वितन्द्रः ॥ ५ ॥ इति श्रीजैन श्वेताम्बराचार्य श्रीपार्श्व चन्द्रसूरिकृता श्रीपार्श्वनाथस्तुतिः समाप्ता ॥
॥ श्रीपार्श्वनाथस्तोत्रप्रारम्भः ॥
प्रणम्य परमात्मानं श्री पार्श्व तव दर्शनात्
पवित्रयामि सद्योदं म्लानवासो जलादिव ॥ १ ॥
प्रणम्येति - प्रकर्षेण नम्यते इति तत्सम्बुद्धौ परा प्रधाना मा लक्ष्मीर्यस्य तत्सम्बुद्धौ हे श्रीपार्श्व अहं सद्यः म्लानवस्त्रं जलादिव तव दर्शनात् आत्मानं पवित्रयामि निर्मलं करोमि ॥ अनुष्टुप् ॥१॥
पा. स्तो०
॥ १७९ ॥