________________
क्रि. जि० ॥ १७७॥
॥ स्रग्धराछन्दः ॥
आत्मन्युद्भूतरागे ऽविशदतरल सद्ज्ञानलक्ष्मीर्यदीये यस्मिन् कल्पद्रुरूपे प्रणयमुपगतैः स्वेषु वेश्माङ्गणेषु । यः पादाग्रेण मेरुं दितिधरमधुना देव देवं पुमांसोऽ जीतत्राणैकतानं व्यसनशतविनाशाय तं वर्धमानम् ॥ २४ ॥
आत्मनीति - हे पुमांसः व्यसनानां दुःखानां शतं तस्य विनाशाय त्राणे रक्षणे एकतानः एक तत्परस्तं देवं वर्धमानमनीत स्तुत एव निश्चितं यो वर्धमानः पादाग्रेण मेहं दितेर्धरमधु नात् यदीये वर्धमानसम्बधिन उडूतरागे श्रात्मनि देहे न तरला सद्ज्ञानस्य लक्ष्मीः अविशत् यस्मिन् वर्धमाने प्रणयं स्नेहमुपगतै र्नरैः स्वेषु वेश्मनामङ्गणेषु कल्पटुः ऊपे उप्तः । अत्र चतस्रः क्रिया गुप्ताः ताश्चयथा अजीत अनि उपसर्गपूर्वक इक् स्मरणे इत्यस्य लोट् मध्यमबहुवचनम् । अधुनात् धुञ् क
क्रि. जि०
॥ १७७॥