________________
SNINGEN
शीतेति-हेअनन्तजिनेश या तव गुणानामावलिः श्रेणिः कृत्स्नजगतां समस्तजगतामपि कुक्षौ जठरे न अमात् न ममौ । मा माने इत्यस्य बुङःप्रयमेकवचनम् । कथंजूता त्वद्गुणाशाताःदी | धितयो यस्य तस्य चन्द्रस्य कला तद्वत् रुचिरा। असौ त्वद्गुणावलिःमादृशां कथं कलनीया गणयितुं योग्या नवेदिति शेषः ॥ १४ ॥
॥रुचिराछन्दः॥ चिरार्जितासुचरितपित्तजन्मनागुरूप्मणा प्रतिकलमाकुलीकृता।
गिरं पयोमधुरतां निपीय ते शरीरिणो जिनवरधर्म निर्टत्तिम् ॥१५॥ चिरेति-दे जिनवरधर्म हे धर्मजिनेन्छ । शरीरिणो देहिनस्ते तब पयोदुग्धमिव मधुरता माधुर्यं यस्यास्तां गिरं वाणी निपीय सादरं श्रुत्वा निवृत्ति मोक्षमाः । इण् गतावित्यस्य खुङः प्रथमबहुवचनम् । जग्मुः। कथं शरी०चिरमार्जितमसुचरितं पापं तदेव पित्तं तापस्तस्मात् जन्म यस्य तेनोष्मणा धर्मणा प्रतिकलं प्रतिक्षणमाकुलीकृता विधुरतां प्रापिताः ॥ १५ ॥
Anwar Mer
-