________________
॥ श्री क्रियागुप्तचतुर्विंशतिजिनस्तुतयः ॥
॥ मालिनीछन्दः ॥
जगति जमिजाज व्यञ्जितापूर्वनीते प्रथमजनिततीर्थाच्युन्नते नानिसूते । जिन जिन वितानध्वंसिनी तावकीनक्रमकमलनमस्या के जनस्याभिलाषम् ॥१॥
जगतीति प्रथमं जनिता तीर्थस्यान्युन्न तिर्येन तत्संबुद्धो व्यञ्जिता प्रकटिताऽपूर्वाऽनिर्वचनीया नीतिर्न्यायो येन तत्संबुद्धौ हे जिन जमिमानमज्ञानं जजतीत्येवं शीले जगति संसारे ब्रजि नानां पापानां वितानं समूहं ध्वंसयतीत्येतादृशी तव इमे क्रमौ कमले श्व तयोर्नमस्या नमस्कारः जनस्य कमभिलाषं वा छितं न निसूते न प्रसूते षाणि प्रसवे इत्यस्य लट् प्रथमैकवचनम् ॥१॥ शिखरिणी छन्दः च्यपेतः कर्माब्धेरचलवरचर्या परिचयात् प्रतिष्ठामापन्नः शिवमजरमासाद्य परमम् ।