________________
श्रीउत्तराध्ययनसूत्रे श्रीनमिच- न्द्रीयवृत्तिः ॥३४॥
द्वितीय परीषहाध्ययनम् ।
गुणैरावर्जितया सततमभिवन्द्यते, उच्यते च-मम कार्यमावेदनीयम् । अन्यदैकेन धिगजातिना सह योद्धमारब्धः । तेन च बलवता क्षुत्क्षामशरीरो भुवि पातितस्ताडितश्च । रात्रौ देवता वन्दितुमायाता । क्षपकस्तूष्णीमास्ते । ततश्चाऽसौ देवतयाऽभिहितः-भगवन ! किं मयाऽपराद्धम् ? । स प्राह-न त्वया दुरात्मनो ममाऽपकारिणः किश्चित् कृतम् । साऽवादीत्-न मया विशेषः कोऽप्युपलब्धो यथाऽयं श्रमणोऽयञ्च धिग्जातिरिति, यतः कोपाविष्टो द्वावपि समानौ संपन्नाविति । ततः 'सती प्रेरणा' इति प्रतिपन्नं क्षपकेणेति । उक्तमेवार्थ निगमयितुमाह- "तम्ह" त्ति यस्मात् सदृशो भवति बालानां तस्मान्न प्रतिसंज्वलेदिति सूत्रार्थः ।। २४ ॥ कृत्योपदेशमाहसोचा णं फरसा भासा, दारुणा गामकंटगा। तुसिणीओ उवेहेजा, ण ताओ मणसी करे ॥२५॥ । व्याख्या-'श्रुत्वा' आकर्ण्य “णमि"ति वाक्याऽलङ्कारे, 'परुषाः' कर्कशाः 'भाषाः' गिरः, दारयन्ति मन्दसत्त्वानां| संयमविषयां धृतिमिति दारुणाः ताः, प्रामः-इन्द्रियग्रामः तस्य कण्टका इव ग्रामकण्टकाः-अतिदुःखोत्पादकत्वेन । तथा चाऽऽगमः-"मुहुत्तदुक्खाओ भवंति कंटया, अओमया ते वि तओ सुउद्धरा । वाया दुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि महाभयाणि त्ति ॥ १॥" "तुसिणीउ" ति तूष्णींशीलो न कोपात् परुषभाषी, एवंविधश्च-"जो सहइ हु गामकंटए, अकोस पहार तज्जणाओ य ॥" इत्यागमं परिभावयन् 'उपेक्षेत' अवधीरयेत् प्रक्रमात् परुषभाषा एव । कथम् ? इत्याह-न ता मनसि कुर्यात् , तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥ २५ ॥ उदाहरणमाह-रायगिहे नयरे अजुणओ नाम मालागारो परिवसइ । तस्स भजा खंदसिरी नाम । तस्स , "मुहूर्तदुःखा भवन्ति कण्टका, अयोमयास्तेऽपि ततः सुदुईराः । वाचा दुरुक्तानि दुस्द्धराणि, वैरानुबन्धीनि महाभयानि इति ॥" २ "ः सह खलु प्रामकण्टकान् , आक्रोशान् प्रहारान् तर्जनाश्च ॥"
॥३४॥