________________
चतुर्थी च-षडूविंशत्यधिकचतुःशत(४२६)पत्रयुक्ता स्थूललिपिका अनतिप्राचीना शुद्धाशुद्धा च, अवसाने "संवत् १६६१ वर्षे फाल्गुणमासे कृष्णपक्षे ५ दिने भोमवारे पं० हरजी लिखितं शुभं भूयात् ॥ यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ १॥" इति लेखकपुष्पिका चास्ति । - पञ्चमी–त्रिचत्वारिंशाधिकत्रिशत(३४३)पत्ररूपा न प्रायो जीर्णा न च प्रायोऽशुद्धा आद्यपत्रद्वयविरहिताच,
प्रान्ते लेखकपुष्पिकाविहीना च । AAL षष्ठी पुनः-एकसप्तत्युत्तरत्रिशत(३७१)पत्राश्चिता नूतना न प्रायः शुद्धा लिपितोऽशोभना त्रिपाठी चेयम् । पृष्ठे |
"संवत् १६६२ वर्षे कार्तिकमासे शुदि ३ दिने सोमे लिखितम् ॥ श्रीआदिनाथप्रसादात् शुभं भवतु । लेखकपाठकयोः
शुभं भवतु ॥ श्री ॥” इति पुष्पिका लेखकस्य । al तदनु प्रतीनां त्रयी गुर्जरप्रान्तान्तर्गतडभोडाइत्याख्यनगरसंस्थापितश्रीमद्विजयानन्दसूरीन्द्रसन्तानीयश्रीमन्मान
विजयमुनिचित्कोषसत्का। AL तत्रैका-एकोनाशीत्यधिकशतद्वय(२७९)पत्रवती दिव्याक्षरा परमशुद्धा, अन्ते च "संवत् १६१२ वर्षे भाद्रपदवदि | (१२ रविवारे श्रीसागरसूरिसन्ताने श्रीसमयभक्तमहोपाध्यायशिष्यश्रीपुण्यनन्दिउपाध्यायशिष्यश्रीरत्नरङ्गोपाध्यायतच्छिष्यवाचकाऽमरगिरिगणिना स्ववाचनार्थ लिपीकृता । लिखिता श्रीफलवर्द्धिकानगरे । वाच्यमाना चिरं नन्द्यात् ॥ शुभं भवतु कल्याणमस्तु लेखकपाठकयोः । यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो
न दीयते ॥ १॥" इति लेखकपुष्पिका । TAL द्वितीया-पञ्चोत्तरशतद्वय(२०५)पत्रयुता प्राचीनपर्णा शुद्धा, प्रान्तभागे लेखकस्य पुष्पिका चेयम्-"संवत् १५५२