________________
श्रीउत्तरा
भाण्डागारसत्का चत्वारिंशदधिकद्विशतपत्रमाना जीर्णपर्णा शुद्धा लिपिसुन्दरा, एतत्प्रान्ते प्रशस्तिसत्क एक एकान्तिम- Maलघुवृत्ते ध्ययन
श्लोको दृश्यते च, प्रेसकोपी चैतदुपरित एव कारिताऽभूदिति । किश्चैतद्ग्रन्थमुद्रणकारणमस्मद्गुरुवर्याणां प्रेरणव ।। प्रस्तावना। सूत्रस्य
__ पुनश्च प्रतीनां षट्कमकब्बरशाहिप्रतिबोधविधायिजगद्विख्यातजगद्गुरुश्रीमद्विजयहीरसूरिजन्मभूम्युत्तरगुर्जरप्रदेशा
न्तःस्थप्रहादनपुरेत्याख्यनगरमध्य'दायरा' इतिनामस्थानसंस्थसंवेगिगच्छोपाश्रयज्ञानागारसत्कम् । ॥३॥
___ तासु प्रथमा-नवनवत्युत्तरत्रिशत(३९९)पत्रमयी प्राचीना शुद्धप्राया, प्रान्तविभागे-"संवत् १५४५ वर्षे xकार्तिकसुदि ३ दिने श्रीधर्मघोषगच्छे मूलपट्टे श्रीधर्मसूरिसन्ताने श्रीपद्मशेखरसूरिपट्टालङ्करणगच्छाधिराजश्रीपद्मा
नन्दसूरिशिष्यवाचकश्रीभावशेखरवाचनार्थ लिखितमिदं मुनिना क्षमारत्नेन श्रुतज्ञानवृद्धये ॥ शुभं भवतु श्रीपार्श्व-| प्रसादात् ॥” इतिकृतोल्लेखश्च वर्त्तते ।
द्वितीया-चतुर्दशोत्तरशतत्रय(३१४)पत्रात्मिका नातिप्राचीना नातिशुद्धा मूलपाठविरहिता अन्तिमपत्रात्पूर्वपत्रन्यूना, सा च प्रान्तवर्त्तिना “अथ संवत् श्रीनृपविक्रमकालातीतसंवत् १६१८ वर्षे माघमासे शुक्लपक्षे ५ शुक्र अदेहउसमापुरे श्रीउत्तराध्ययनटीकायां दो० लहुयीआदिसमस्तसङ्केन लिखापिते गुणिश्रीलङ्ककृते शास्त्रमिदं सुधासमं श्रीउत्तराध्ययनवृत्तिरियम् ॥ यादृशं पुस्तके दृष्ट, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥१॥ लेखकपाठकयोर्माङ्गल्यं ददातु ॥ तैलाद्रक्षेजलाद्रक्षेद् रक्षेच्छिथिलबन्धनात् । परहस्तगताद्रक्षेदेवं वदति पुस्तकम् ॥२॥ इत्युल्लेखेन सङ्गताऽस्ति ।
lear३॥ L तृतीया पुनः-षविंशत्युत्तरत्रिशत(३२६)पत्रप्रमाणा सूक्ष्माक्षरा अनतिजीर्णा प्रायः शुद्धा विंशतितमपत्रविकला च, अन्ते च "यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ १॥ संवत् १५६३ वर्षे लिखितम् ॥" इत्युल्लेखवती।