________________
श्रीउत्तराध्ययनसूत्रलघुव्याख्याव्याख्यातुः प्रशस्तिः।
प्रवृत्तिप्रकार
प्रशस्ति । अस्ति विस्तारवानुया, गुरुशाखासमन्वितः। आसेव्यो भव्यसार्थानां, श्रीकोटिकगणद्रुमः॥१॥ तदुत्थवैरिशाखायाम-* भूदायतिशालिनी । विशाला प्रतिशाखेव, श्रीचन्द्रकुलसन्ततिः ॥२॥ तस्याश्चोत्पद्यमानच्छदनिचयसदृक्षावकर्णान्बयोत्थश्रीथारापद्रगच्छप्रसवभरलसद्धर्मकिञ्जल्कपानात् । श्रीशान्त्याचार्यभृङ्गः प्रवरमधुसमामुत्तराध्यायवृत्ति, विद्वल्लोकस्य दत्तप्रमुदमुदगिरद यां गभीरार्थसाराम् ॥३॥ तस्याः समुद्धृता चैषा, सूत्रमात्रस्य वृत्तिका । एकपाठगता मन्दबुद्धीनां हितकाम्यया॥४॥ आत्मसंस्मरणार्थाय, यथा मन्दधिया यया।अतोऽपराधमेनं मे, क्षमन्तु श्रुतशालिनः ॥५॥ आसीच्चन्द्रकुलोद्भूतो, विख्यातो जगतीतले । अक्षमाराजितोऽप्युञ्चैर्यः क्षमाराजितः सदा॥६॥ धर्मोऽथ मूर्तिमानेव, सौम्यमूर्तिः शशाङ्कवत् । वर्जितश्चाशुभैर्भावै रागद्वेषमदादिभिः ॥७॥ सुनिर्मलगुणैर्नित्यं, प्रशान्तैः श्रुतशालि भिः। प्रद्युम्न-मानदेवादिसूरिभिः प्रविराजितः ॥८॥ विश्रुतस्य महीपीठे, बृहद्गच्छस्थ मण्डनम् । श्रीमान् विहारुकप्रष्ठः, सूरिरुद्योतनाभिधः॥९॥ शिष्यस्तस्याऽऽम्रदेवोऽभूदुपाध्यायः सतां मतः। यत्रैकान्तगुणापूर्णे, दोषैलेंभे पदं न तु॥१०॥ श्रीनेमिचन्द्रसूरिरुद्धृतवान् वृत्तिकां तद्विनेयः। गुरुसोदर्यश्रीमन्मुनिचन्द्राचार्यवचनेन ॥११॥ शोधयतु बृहदनुग्रहबुद्धिं मयि संविधाय विज्ञजनः । तत्र च मिथ्यादुष्कृतमस्तु कृतमसङ्गतं यदिह ॥१२॥ अणहिलपाटकनगरे, दोहडिसच्छ्रेष्ठिसत्कवसतौ च । सन्तिष्ठता कृतेय, नेवरहरवत्सरे चैव ॥१३॥ पट्टिकातोऽलिखच्चेमां, सर्वदेवाभिधो गणी । आत्मकर्मक्षयायाऽथ, परोपकृतिहेतवे॥१४॥ दोहडिश्रेष्ठिना चाऽस्या, लेखिता प्रथमा प्रतिः। जिनवाक्यानुरक्तेन, भक्तेन गुणवजने ॥१५॥ अनुष्टुभां सहस्राणि, गणितक्रिययाऽभवन् । द्वादश ग्रन्थमानं तु, वृत्तेरस्या विनिश्चितम् ॥१६॥ ग्रन्था सूत्रेण सह [१३५५०] श्रीउत्तराध्ययनलघुवृत्तिः परिपूर्णा ।। संवत् १५४५ वर्षे कार्तिकशुदि ३ दिने श्रीधर्मघोषगच्छे मूलपट्टे श्रीधर्मसूरिसन्ताने श्रीपद्मशेखरसूरिपट्टालङ्करणगच्छाधिराजश्रीपद्मानन्दसूरिशिष्यवाचकश्रीभावशेखरवाचनार्थं लिखितमिदं मुनिना क्षमारत्नेन श्रुतज्ञानवृद्धये। शुभं भवतु श्रीपार्श्वप्रसादात् ।।