________________
संसारिजीववक्तव्यता।
प्राकृतत्वात, 'एव च' पूरणे ॥१६०-१६॥ यतश्चैवमतो जिनवचनं भावतः कर्त्तव्यम् , तद्भावकरणं च आलोचनया, सा च तच्छ्रवणार्हाणां देया, ते च यहेतुभिर्भवन्ति तानाहबहआगमविन्नाणा, समाहिउप्पायगाय गुणगाही। एएण कारणेणं, अरिहा आलोयणं सोउं॥२६२॥
व्याख्या-बहुः-सूत्रतोऽर्थतश्च स चासौ आगमश्च बह्वागमस्तस्मिन् विशिष्टं ज्ञानं येषां ते बह्वागमविज्ञानाः, "समाहि" त्ति समावेः उत्पादकाः, किमुक्तं भवति ?-देशकालाशयादिविज्ञतया समाधिमेव मधुरभणित्यादिभिरालोचनादातणामुत्पादयन्ति, चशब्दो भिन्नक्रमः, ततः "गुणग्गाहि" त्ति 'गुणग्राहिणश्च' उपबृंहणार्थ परेषां सद्भूतगुणग्रहणशीला:, "एएण कारणेणं" ति एतैः कारणैः अहा॑ भवन्त्याचार्यादय इति गम्यते आलोचना श्रोतुमिति सूत्रार्थः ॥२६२॥ इत्थमनशनस्थितेन यत्कृत्यं तदुपदर्य सम्प्रति प्रागुद्दिष्टकन्दर्पादिभावनानां स्वरूपमाहकंदप्प-कोकुयाई, तह सील-सहाव-हसण-विगहाहिं। विम्हावेतोय परं, कंदप्पं भावणं कुणइ २६३ मंताजोगं काउं, भूईकम्मं च जे पउंजंति । सायरसइड्डिहेडं, अभिओगं भावणं कुणइ ॥२६४॥ णाणस्स केवलीणं, धम्मायरियस्स संघसाहूणं। माई अवन्नवाई, किब्बिसियं भावणं कुणइ॥२६॥ अणुबद्धरोसपसरो, तह य निमित्तम्मि होइ पडिसेवी। एएहि कारणेहि य, आसुरियं भावणं कुणइ॥ सत्थग्गहणं विसभक्खणंच जलणंच जलप्पवेसोय ।अणायारभंडसेवा, जम्मणमरणाणि बंधंति॥
व्याख्या-"कंदप्पकोक्कुयाई" ति कन्दर्पकौकुच्ये कुर्वन्निति शेषः, तत्र कन्दर्प:-"कहकहकहस्स हसणं, कंदप्पो| अणिहुया य आलावा । कंदप्पकहाकहणं, कंदप्पुवएससंसा य ॥१॥" अनिभृता आलापाच-गुर्वादिनाऽपि सह
. "कहकहकहस्य हसनं कन्दर्पोऽनिभूतांश्च संकापाः । कन्दर्पकथाकथनं कन्दर्पोपदेशशंसा च ॥१॥"