SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ *8XXXXCX XXX CXCXX CX व्याख्या - तत्र सिद्धा महाभागा लोकाम्रे 'प्रतिष्ठिताः' सदाऽवस्थिताः, एतच्च कुत: ? इत्याह-भवप्रपञ्चोन्मुक्ताः सन्तः सिद्धिं वरगतिं गताः ॥ ६३ ॥ तदवगाहनामाह उस्सेहो जस्स जो होइ, भवम्मि चरिमम्मिय । तिभागहीणा तत्तो य, सिद्धाणोगाहणा भवे ॥ ६४ ॥ व्याख्या – स्पष्टम् ॥ ६४ ॥ एतानेव कालतः प्ररूपयितुमाह एगत्तेण साईया, अपज्जवसिया वि य । पुहुत्तेण अणाईया, अपज्जवसिया वि य ॥ ६५ ॥ व्याख्या— स्पष्टम् । नवरम् — 'पृथक्त्वेन' बहुत्वेन सामस्त्येनेत्यर्थः ॥ ६५ ॥ एषामेव स्वरूपमाह - अरूविणो जीवघणा, णाणदंसणसष्णिया । अउलं सुहं संपत्ता, उवमा जस्स णत्थि उ ॥ ६६ ॥ व्याख्या - स्पष्टम् । नवरम् — जीवाश्च ते घनाश्च - शुषिरपूरणतो निचिता जीवघनाः, ज्ञानदर्शने एव सञ्ज्ञासा सञ्जाता येषां ते ज्ञानदर्शनसञ्ज्ञिताः, “सुहं” ति सुखम् ॥ ६६ ॥ उक्तग्रन्थेन गतमपि विप्रतिपत्तिनिराकरणार्थं पुनः क्षेत्रस्वरूपं च तेषामाह - लोएगदेसे ते सधे, णाणदंसणसन्निया । संसारपार नित्थिन्ना, सिद्धिं वरगइं गया ॥ ६७ ॥ व्याख्या – स्पष्टम् । नवरम् — लोकैकदेशे ते सर्वे इत्यनेन सर्वत्र मुक्तास्तिष्ठन्तीति मतमपास्तम् । ज्ञानदर्शनसञ्ज्ञिता इत्यनेन केषाञ्चिन्मा भूत् ज्ञानसज्ञाऽपरेषां दर्शनसञ्चैव केवला, किन्तु अपि सर्वेषामिति । संसारपारं 'निस्तीर्णाः' अतिक्रान्ताः, अनेन तु - " ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥” इति मतं निराकृतम् । सिद्धिं वरगतिं गताः, अनेन तु क्षीणकर्मणोऽपि लोकाग्रगमनात् स्वभावेनैवोत्पत्तिसमये सक्रियत्वमप्यस्ति इति ख्याप्यते । वाचनान्तरे तु इदं सूत्रं नास्त्येव ॥ ६७ ॥ इत्थं सिद्धानभिधाय संसारिण आह toxoxoxoxoxoxoxoxoxox सिद्धजीव वक्तव्यता ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy