SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ अथ द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिच द्वात्रिंश प्रमादस्थानाख्यमध्ययनम्। न्द्रीया मुखबोधाख्या लघुवृत्तिः । प्रमादस्य स्थानानि । ॥३५२॥ 'अनन्तराध्ययने चरणमभिहितम् , तच्च प्रमादस्थानपरिहारत एवाऽऽसेवितुं शक्यं तत्परिहारश्च तत्परिज्ञानपूर्वक इति तदर्थ द्वात्रिंशमप्रमादस्थाननामकमध्ययनमधुनाऽऽरभ्यते' इति सम्बन्धस्याऽस्येदमादिसूत्रम् अचंतकालस्स समूलयस्स, सबस्स दुक्खस्स उ जो पमोक्खो। तं भासओ मे पडिपुण्णचित्ता, मुणेह एगंतहियं हियत्थं ॥१॥ व्याख्या-अन्तमतिक्रान्तोऽत्यन्तः,वस्तुनश्च द्वावन्तौ-आरम्भक्षणो निष्ठाक्षणश्च, तत्रेह आरम्भक्षणोऽन्तः परिगृह्यते, तथा चात्यन्तः-अनादिः कालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन-कषायाविरतिरूपेण वर्त्तत इति समूल कस्तस्य, उक्तं हि-"मूलं संसारस्स उ, हुंति कसाया अविरई य" । सर्वस्य, दुःखयतीति दुःख-संसारस्तस्य यः प्रकर्षेण मोक्षः-अपगमः प्रमोक्षः पूर्वस्य तुशब्दस्यावधारणार्थस्येह सम्बन्धात् प्रमोक्ष एव, तं भाषमाणस्य मे प्रतिपूर्ण-प्रक्रान्तार्थश्रवणव्यतिरिक्तविषयान्तरागमनेनाऽखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः शृणुत एकान्तहितं, हितः-तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः॥१॥ यथाप्रतिज्ञातमाह नाणस्स सबस्स पगासणाए, अन्नाणमोहस्स विवजणाए। रागस्स दोसस्स य संखएणं, एगंतसुक्खं समुवेइ मोक्खं ॥२॥ "मूलं संसारस्य तु भवन्ति कषाया अविरतिश्च"। ॥३५२॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy