________________
यतिरात्रिकृत्यम् ।
पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवजित्ता, करिज सिद्धाण संथवं ॥५१॥ ___ व्याख्या-"तउ" त्ति 'ततः' प्रस्रवणादिभूमिप्रतिलेखनानन्तरम् प्रतिक्रम्य 'निःशल्यः' मायादिशल्यरहितः, सूचक|त्वात् सूत्रस्य वन्दनकपूर्वकं क्षमयित्वा च वन्दित्वा ततो गुरुं 'कायोत्सर्ग' चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयलक्षणं जातावेकवचनम् ॥ "थुइमंगलं च काऊणं" ति 'स्तुतिमङ्गलं' स्तुतित्रयरूपं कृत्वा कालं सम्प्रत्युपेक्षते, कोऽर्थः ? प्रतिजागर्ति उपलक्षणत्वाद् गृहाति च ॥ “पढममि"त्यादि गतमेव । नवरं पुनरभिधानमस्य पुनः पुनरुपदेष्टव्यमेव गुरु| भिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् ।। कथं पुनश्चतुर्थपौरुष्यां स्वाध्यायं कुर्यात् ? इत्याह-पौरुष्यां चतुया 'कालं' वैरात्रिक 'तुः' पूरणे, 'प्रत्युपेक्ष्य' प्रतिजागर्य प्राग्वद् गृहीत्वा च स्वाध्यायं ततः कुर्याद् 'अबोधयन्' अनुत्थापयन् असंयतान् । 'पौरुष्याः' प्रक्रमात् चतुर्थ्याश्चतुर्भागेऽवशिष्यमाणे इति शेषः, वन्दित्वा ततो गुरुं प्रतिक्रम्य 'कालस्य' वैरात्रिकस्य 'कालं' प्राभातिकं तुशब्दो वक्ष्यमाणविशेषद्योतकः "पडिलेहए" त्ति 'प्रत्युपेक्षेत' प्राग्वद् गृह्णीयाच्च । इह च साक्षात् प्रत्युपेक्षणस्यैव पुनः पुनरभिधानं बहुतरविषयत्वात् । अत्र च सम्प्रदायः-"ताहे गुरू उद्वित्ता गुणंति जाव चरिमो जामो पत्तो, चरिमे जामे सधे उद्वित्ता वेरत्तियं घेत्तुं सज्झायं करेंति ताहे गुरू सुवंति, पत्ते पाभाइए काले जो पाभाइयं कालं घेच्छिति सो कालस्स पडिक्कमिउं पाभाइयं कालं गेण्हइ, सेसा कालवेलाए कालस्स पडिक्कमंति, तओ आवस्सयं कुणंति"। मध्यमप्रक्रमापेक्षं च कालत्रयग्रहणमुक्तम् , अन्यथा झुत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः काला अपवादतश्चोत्कर्षेण द्वौ जघन्येनैकोऽप्यनुज्ञात एव, यत उक्तम्-कालचउक्कं उक्कोसएण, जहन्नओ तिन्नि हुँति बोधवा ।
"तदा गुरव उत्थाय गुणयन्ति यावत् चरमो यामःप्राप्तः, चरमे यामे सर्वे उत्थाय वैरात्रिकं गृहीत्वा स्वाध्यायं कुर्वन्ति तदा गुरवः स्वपन्ति, | प्रासे प्राभातिके काले यः प्राभातिकं कालं ग्रहीष्यति स कालस्य प्रतिक्रम्य प्राभातिकं कालं गृह्णाति, शेषाः कालवेलायां कालस्य प्रतिक्राम्यन्ति, तत आवश्यकं कुर्वन्ति" | २ "कालचतुष्कं उत्कृष्टेन जघन्यतः त्रयो भवन्ति बोद्धच्याः । द्वितीयपदे द्विकं तु, मायामदविप्रमुक्तानाम् ॥१॥"