________________
पानगवेषणम्, अन्यथा स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणम्, तथा चाह - "सईकाले घरे भिक्खु" त्तिः ॥ ताम्येष षट् कारणान्याह - "वैयण" त्ति सुब्लोपाद् वेदनाशब्दस्य चोपलक्षणत्वात् क्षुत्पिपासावेदनोपशमनाय तथा "वेसावच्चे" न्ति वैयावृत्त्याय, तथा 'ईर्ये'ति ईर्यासमितिः सैव हार्थस्तस्मै, 'चः' समुच्चये, तथा संयमार्थाय तथा "पाण| बत्तियाए” त्ति 'प्राणप्रत्ययं' जीवितनिमित्तम्, अविधिना ह्यात्मनोऽपि प्राणोपक्रमणे हिंसा स्यात्, षष्ठं पुनरिदं कारणम्यदुत 'धर्मचिन्तायै' धर्मध्यानचिन्तायै भक्तपानं गवेषयेदिति सर्वत्राऽनुवर्त्तते ।। आह— एतत्कारणोत्पत्तौ किमवश्यं - भक्तमान गवेषणं कर्त्तव्यमुताऽन्यथा ? इत्याह – “निग्गंथे" त्यादि सुगमम्, नवरम् — किमिति न कुर्यात् ? इत्याह- " अणइकमणाइ" ति सूत्रत्वाद् 'अनतिक्रमणं' संयमयोगानामनुल्लङ्घनं, चशब्दो यस्मादर्थे, यस्मात् "से" तस्य निर्मन्थादेर्भवति, अन्यथा तदतिक्रमणसम्भवात् ॥ षट् स्थानान्याह – 'आतङ्के' ज्वरादौ 'उपसर्गे' दिव्यादौ सति, उभयत्र तन्निवारणार्थ| मिति गम्यते । तथा तितिक्षा - सहनं तया, ब्रह्मचर्यगुप्तिषु विषये, तथा "पाणिद्यातवहेडं" ति 'प्राणिदयाहेतोः' वर्षादौ निपतत्यप्कायादिजीवरक्षायै, तपः- चतुर्थादि तद्धेतोच, तथा शरीरव्यवच्छेदनार्थं उचितकालेऽनशनं कुर्वन् भक्तपानगवे - षणं न कुर्यादिति योज्यम् ॥ तद्गवेषणां च कुर्वन् केन विधिना कियत्क्षेत्रं पर्यटेत् ? इत्याह- अपगतशेषमपशेषं समस्त| मित्यर्थः 'भाण्डकम् ' उपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येति गम्यते, ततः प्रतिलेखयेत् उपलक्षणत्वाच्चाऽस्य तदाऽऽदाय 'परम्' उत्कृष्टम् अर्द्धयोजनमाश्रित्य ल्यबूलोपे पञ्चमी, परतो हि क्षेत्रातीतमशनादि स्यात्, विहरत्यस्मिन् प्रदेशे इति विहारस्तं 'विहरेत्' चरेत् मुनिः ॥ इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपुरस्सरं भोजनादि कृत्वा यत् कुर्यात् तदाह – “चउत्थी”त्यादि 'निक्षिप्य' प्रत्युपेक्षणापूर्वकं बद्धा || पौरुष्याः प्रक्रमात् चतुर्थ्याश्चतुर्भागे शेष इति गम्यते ॥ "पासवणुच्चार
१ सरकाले चरेद् भिक्षुः ।
यतिदिनकृत्यम् ।