________________
विजयघोषचरित्रम् ।
अत एव रागाद्यतीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ॥ त्रसप्राणिनो विज्ञाय 'सङ्ग्रहेण' सङ्केपेण, चशब्दाद् विस्तरेण च, तथा स्थावरान् यो न हिनस्ति 'त्रिविधेन' योगेनेति गम्यते॥"एवमलित्तं कामेहिं" ति 'एवमिति पद्मवदलिप्तः कामैः, तज्जातोऽपि यस्तं वयं ब्रूमो ब्राह्मणम् ॥ "असंसत्तं गिहत्थेसु” त्ति असंसक्तं गृहस्थैः॥ केचित्-पठन्ति-"जहित्ता पुवसंजोगं, नाइसंगे य बंधवे । जो न सज्जइ एएहिं, वयं बूम माहणं ॥१॥" अत्र च 'पूर्वसंयोग' मात्रादिसम्बन्धं 'ज्ञातिसङ्गान्' स्वस्रादिसङ्गान् , चस्य भिन्नक्रमत्वात् 'बान्धवांश्च' भ्रात्रादीन् । स्यादेतद्-वेदाध्ययनं यजनं च भवात् त्रायकमिति तद्योगादेव ब्राह्मणो न तु यथा त्वयोक्त इत्याशङ्कयाह-पशूनां बन्धः-विनाशाय नियमनं यैहेतुभिस्तेऽमी पशुबन्धाः 'सर्ववेदाः' ऋग्वेदादयः, "जहूँ" ति 'इष्टं' यजनं, 'चः' समुच्चये, 'पापकर्मणा' पापहेतुपशुबन्धाद्यनुष्ठानेन न तं यष्टारं त्रायन्ते भवादिति गम्यते, 'दुःशीलं' दुराचारं यतः कर्माणि 'बलवन्ति' दुर्गतिनयनं प्रति समर्थानि 'इह' वेदाध्ययने यजने च भवन्तीति गम्यते, अतो नैतद्योगाद् ब्राह्मणो भवति, किन्त्वनन्तरोक्तगुण एवेति भावः ॥ अन्यच्च 'न' नैव 'अपिः' पूरणे, मुण्डितेन 'श्रमणः' निर्ग्रन्थः । न ॐकारेणोपलक्षणत्वाद् "ॐ भूर्भुवःस्वः" इत्यादिना ब्राह्मणः । न मुनिः अरण्यवासेन । कुशः-दर्भस्तन्मयं चीवरं कुशचीवरं वल्कलोपलक्षणमेतत् , तेन तापसः।। कथममी तर्हि भवन्ति ? इत्याह-'समतये'त्यादि । तथा 'कर्मणा' क्रियया ब्राह्मणो भवति । उक्तं हि-"क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिघृणा । ज्ञानं विज्ञानमास्तिक्य-मेतद्ब्राह्मणलक्षणम् ॥ १॥" तथा 'कर्मणा' क्षतत्राणलक्षणेन भवति क्षत्रियः । वैश्यः 'कर्मणा' कृषिपाशुपाल्यादिना भवति । शूद्रो भवति तु 'कर्मणा' शोचनादिहेतुप्रेषणादिसम्पादनरूपेण । कर्माभावे हि ब्राह्मणादिव्यपदेशानामसत्तैवेति । ब्राह्मणप्रक्रमे च यच्छेषाभिधानं तद्व्याप्तिदर्शनार्थम् ॥ किमिदं स्वमनीषिकयैवोच्यते ? इत्याह-एतान्' अनन्तरोक्तान् अहिंसाद्यर्थान् 'प्रादुरकार्षीत्' प्रकटितवान् 'बुद्धः सर्वज्ञो यैर्भवति स्नातकः' केवली ।
8XOXXXXXXXXXXXX