________________
चतुर्विशं प्रवचनमात्राख्यमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा-1 ख्या लघुवृत्तिः। ॥३०२॥
प्रवचनमातनामानि।
अथ प्रवचनमात्राख्यं चतुर्विंशमध्ययनम् । ___ व्याख्यातं त्रयोविंशमध्ययनम् । सम्प्रति प्रवचनमातृनामकं चतुर्विंशमारभ्यते, अस्य चायमभिसम्बन्धः'अनन्तराध्ययने परेषामपि चित्तविप्लुतिः केशिगौतमवदपनेया इत्युक्तम् , तदपनयनं च सम्यग्वाग्योगत एव, स च प्रवचनमातृस्वरूपपरिज्ञानत इति तत्स्वरूपमुच्यते' अनेन सम्बन्धेनायातस्यास्याऽऽदिसूत्रम्अट्ठ प्पवयणमायाओ, समिती गुत्ती तहेव य । पंचेव य समिईओ, तओ गुत्तीउ आहिया ॥१॥ इरियाभासेसणादाणे, उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती उ अट्ठमा ॥२॥ एयाओ अह समिईओ, समासेण वियाहिया। दुवालसंगं जिणक्खायं, मायं जत्थ उपवयणं ॥३॥
व्याख्या-सुगममेव । नवरम्-"समिइ" त्ति समितयः, "गुत्ति" ति गुप्तयः, तथैव 'च: समुच्चये, ''आहिय" त्ति | आख्याताः। ता एव नामत आह-"इरिए"त्यादि आदानं-ग्रहणं निक्षेपोपलक्षणम् , "उच्चारे समिई इय" त्ति चस्य भिन्न-1 |क्रमत्वाद् उच्चारशब्दस्य चोपलक्षणत्वाद् उच्चारादिपरिष्ठापनायां च समितिः, इदं च प्रत्येकं योज्यते, 'इतिः' परिसमाप्तौ एतावत्य एव समितयः॥ निगमनमाह-एता अष्ट 'समितयः' समिति-सम्यक् सर्ववित्प्रवचनानुसारितया इतयः-आत्मनश्चेष्टाः समितय इत्यन्वर्थे गुप्तीनामपि समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः । यत्तु भेदेनोपादानं तत् समितीनां प्रवीचाररूपत्वेन गुप्तीनां तु प्रवीचाराऽप्रवीचारात्मकत्वेन कथञ्चिद् भेदख्यापनार्थम्। 'माय' ति तुशब्दस्योत्तरस्येह योगाद् मातमेव, तथाहि-सर्वा अप्यमूश्चारित्ररूपाः, ज्ञानदर्शनाऽविनाभावि च चारित्रम् , न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमित्येतासु प्रवचनं मातमुच्यते इति सूत्रत्रयार्थः ॥ १-२-३ ॥ तत्रेर्यासमितिस्वरूपमाह
०२॥