________________
विसयाण विवागदारुणत्तं, सीलखंडणस्स नरयाइयं फलं । अण्णं च न विसयसेवणेण मणसमाही अवि य पभूयतरा चेव अरई हवइ, जतो वड्डइ चेव तस्सेवणेणं लद्धपसरस्स मणस्स इच्छा, भणियं च – “भुत्ता दिवा भोगा, सुरेसु असुरेसु तह य मणुरसु । न य संजाया तित्ती, अतित्तरंकस्स व जियस्स || १||" एमाइअनुसासितो संबुद्धो एसो । 'सम्मं चोयण' त्ति भणतो अत्ताणं निंदिऊण रायमहं च अभिनंदिऊण गतो साहुमज्झे । सा वि अज्जियासमीवे । अरिट्ठनेमी य भयवं मरगयसमवण्णदसधणूसियदेहो संखलंछणो चउप्पण्णदिणूणाई सत्त वाससयाई केवलिपरियाएण विहरिउं पडि - बोहिऊण अणेगे भवसत्ते पालिऊण वाससहस्समाउं रेवयगिरिम्मि आसाढसुद्धअट्टमीए मासिएण भत्तेणं छत्तीसएहिं पंचहिं सएहिं सह सिद्धिं गतो । रहनेमी रायमई य सिद्धाई । पनरस सयाई समणाणं तीसं च सयाई समणीणं भयवतो अरिट्टनेमिस्स सिद्धाई । चवणाईसु पंचसु कल्लाणगेसु चित्तानक्खत्तमासि त्ति अरिट्ठनेमिचरियं सम्मत्तं ॥ सूत्रोक्तमपि यदत्र कथितं तत् कथानकप्रसङ्गेन श्रोतृजनानुग्रहार्थम् । सम्प्रति सूत्रं व्याख्यायते—
“लक्खणस्सरसंजुओ” त्ति स्वरलक्षणानि - माधुर्यादीनि तैः संयुतो यः सः तथा । “गोयमो” त्ति गौतमसगोत्रः ।। " विज्जुसोयामणिष्पह" त्ति “विशेषेण द्योतते विद्युत् सा चाऽसौ सौदामिनी च विद्युत्सौदामिनी तत्प्रभा - तद्वर्णा । "जा से" त्ति सुब्व्यत्ययाद् येन तस्मै कन्यां ददाम्यहम् ॥ 'सर्वोषधयः' जयाविजयर्द्धिवृद्ध्यादयः । ' कृतकौतुकमङ्गलः ' इत्यत्र कौतुकानि - ललाटमुशलस्पर्शनादीनि मङ्गलानि च दध्यक्षतादीनि ॥ वासुदेवस्य सम्बन्धिनमिति गम्यते, 'ज्येष्ठकम्' अतिशयप्रशस्यकम् ॥ 'दिव्येन' प्रधानेन, “गयणं फुसि" त्ति आर्षत्वाद् गगनस्पृशोपलक्षितः || 'वृष्णिपुङ्गवः' यादवप्रधानः ॥ अथ सः 'निर्यन्' अधिकं गच्छन् "दिस्स" त्ति 'दृष्ट्वा' अवलोक्य || "पासित्त" त्ति दृष्ट्वा, कोऽर्थः ? उक्तविशेषणविशिष्टान् हृदि निध्याय 'सः' इति भगवान् ॥ "कस्सऽट्ठ" त्ति कस्याऽर्थात् हेतोरिमे प्राणा एते सर्वे ?,
अरिष्टनेमि चरित्रम् |