SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ समुद्रपालस्य वक्तव्यता। "पहीणसंथवे" त्ति संस्तवाहीणः, संस्तवश्च पूर्वपश्चात्संस्तवरूपः, विरत आत्महितः, प्रधानः-सर्वसंयमो मुक्तिहेतुत्वात् स यस्याऽस्त्यसौ प्रधानवान् , परमोऽर्थः परमार्थः-मोक्षस्तस्य पदानि-सम्यग्दर्शनादीनि तेषु तिष्ठति छिन्नशोकः अममः अकिञ्चनः। इह च संयमस्थानानां बाहुल्यात् तदभिधायिनां पदानां पुनः पुनर्वचनेऽपि न पौनरुक्त्यम् ॥ विविक्तलयनानि' ख्यादिविरहितोपाश्रयाः "भएज" त्ति भजति त्रायी 'निरुपलेपानि तदर्थं नोपलिप्तानि 'असंसृतानि' बीजादिभिरव्याप्तानि, अत एव ऋषिभिः 'चीर्णानि सेवितानि महायशोभिः, कायेन "फासेज" त्ति सुव्यत्ययात् 'स्पृशति' सहते परीषहान् ॥ ततः कीदृगभूद् ? इत्याह-'सः' समुद्रपालनामा मुनिर्ज्ञानं श्रुतज्ञानं तेन ज्ञानम्-अवगमः प्रक्रमाद् यथावत् क्रियाकलापस्य तेन उपगतः-युक्तो ज्ञानज्ञानोपगतो महर्षिरनुत्तरं चरित्वा 'धर्मसञ्चयं' क्षान्त्यादिधर्मसमूह "अणुत्तरेनाणधरे" त्ति एकारस्याऽलाक्षणिकत्वाद् अनुत्तरं ज्ञानं-केवलाख्यं तद्धरो यशस्वी 'अवभासते' प्रकाशते सूर्यवद् अन्तरिक्षे इति सूत्रत्रयोदशकार्थः ॥ ११-१२-१३-१४-१५-१६-१७-१८-१९-२०-२१-२२-२३ ॥ अध्ययनार्थमुपसंहरंस्तस्यैव फलमाह दुविहं खवेऊण य पुण्णपावं, निरंगणे सवओ विप्पमुक्के। तरित्ता समुहं व महाभवोघं, समुद्दपाले अपुणागमं गए ॥ २४ ॥ त्ति बेमि ॥ 'द्विविधं घातिकर्म-भवोपग्राहिभेदेन द्विभेदं 'पुण्यपापं' शुभाऽशुभप्रकृतिरूपम् अर्थात् कर्म 'निरङ्गनः' प्रस्तावात् | संयम प्रति निश्चलः शैलेश्यवस्थाप्राप्त इत्यर्थः, अत एव 'सर्वतः' इति बाह्यादान्तराच्च प्रक्रमादभिष्वङ्गहेतोर्विप्रमुक्तः PA तीवा समुद्रमिव 'महाभवौघ' बृहज्जन्मसन्तानं समुद्रपालः अपुनरागमां गतिं गत इति सूत्रार्थः ॥ २४ ॥ इतिः' | परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।। ॥ इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां समुद्रपालीयाख्यमेकविंशमध्ययनं समाप्तम् ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy