SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ सञ्जयराजर्षेवक्तव्यता। गृहस्थास्तेषां मनाः-तत्कार्यालोचनरूपास्तेभ्यः, 'वा' समुच्चये, 'पुनः' विशेषणे, अतिसावद्यत्वं तेषां विशिनष्टि । सोपस्कारत्वात सूत्रस्य अमुनाऽभिप्रायेण यः संयम प्रत्युत्थानवान् सः 'अहो' इति विस्मये 'उत्थितः' धर्म प्रत्युद्यतः ॥ कश्चिदेव हि महात्मा एवंविधः सम्भवति, 'अहोरात्रम्' अहर्निशम् ‘इति' एतद् अनन्तरोक्तं "विज" त्ति 'विद्वान्' जानन् | "तवं" ति गम्यमानत्वाद् अवधारणस्य तप एव न तु प्रश्नादि 'चरेः' आसेवखेति सूत्रार्थः ॥ ३१॥ अत्रान्तरे "अप्पणो य परेसिं चे"त्यादिना तस्यायुर्विज्ञतामवगम्य सञ्जयमुनिनोक्तम्-कथं भवानायुर्जानातीति पृष्टोऽसावाहजं च मे पुच्छसी काले, सम्मं सुद्धेण चेयसा। ताई पाउकरे बुद्धे, तं णाणं जिणसासणे ॥३२॥ | व्याख्या-यच्च 'मे' इति मां पृच्छसि 'काले' कालविषयं सम्यक् शुद्धेन चेतसा उपलक्षितः, “ताई" ति सूत्रत्वात् तत् 'प्रादुःकृतवान्' प्रकटीकृतवान् , 'बुद्धः' सर्वज्ञः अत एव तद् ज्ञानं जिनशासने, सावधारणत्वाद् वाक्यस्य जिनशासन एव न त्वन्यस्मिन् सुगतादिशासने, अतो जिनशासन एव यत्नो विधेयो येन यथाऽहं जानामि तथा त्वमपि जानीषे । पूर्वोक्तश्च आयुर्विज्ञानविषयः सञ्जयमुनिना कृतः प्रश्नोऽस्मादेव प्रतिवचनात् लक्ष्यत इति सूत्रार्थः ॥ ३२ ॥ पुनरुपदेष्टुमाहकिरियं च रोयए धीरे, अकिरियं परिवजए। दिट्ठीए दिद्विसंपन्ने, धम्म चर सुदुच्चरं ॥ ३३ ॥ | व्याख्या-क्रियां च' अस्तिजीव इत्यादिरूपां रोचयेत् 'धीरः' अक्षोभ्यः, तथा 'अक्रियां' नास्त्यात्मेत्यादिकां परिवर्जयेत् , ततश्च 'दृष्ट्या' सम्यग्दर्शनात्मिकया उपलक्षितो दृष्टिः-बुद्धिः सा चेह प्रस्तावात् सम्यग्ज्ञानात्मिका तया सम्पन्नो दृष्टिसम्पन्नः, एवं च सम्यग्दर्शनज्ञानान्वितः सन् 'धर्म' चारित्रधर्म चर सुदुश्वरमिति सूत्रार्थः ॥ ३३ ॥ पुनः क्षत्रियमुनिरेव सञ्जयमुनि महापुरुषोदाहरणैः स्थिरीकर्तुमाह
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy