SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ सञ्जयराजर्षेवक्तव्यता। व्याख्या-पतन्ति नरके घोरे ये नराः पाप-प्रस्तावाद् असत्प्ररूपणारूपं कर्तुं शीलमेषां ते पापकारिणः । ये तु| एवंविधा न भवन्ति ते किम् ? इत्याह-दिव्यां पुनर्गतिं, 'च' पुनरर्थे गच्छन्ति चरित्वा धर्मम् आर्यम् । तदयमभिप्रायःअसत्प्ररूपणापरिहारेण सत्प्ररूपणापरेणैव भवता भाव्यमिति सूत्रार्थः ॥ २५ ॥ कथं पुनरमी पापकारिणः ? इत्याहमायावुईयमेयं तु, मुसाभासा निरत्थिया । संजममाणो वि अहं, वसामि इरियामि य ॥२६॥ व्याख्या-मायया-शाठ्येन "बुइयं" ति उक्तं मायोक्तम् एतत्' यदनन्तरं क्रियादिवादिभिरुक्तम् , 'तु:' एवकारार्थः, स च मायोक्तमेव इत्यत्र योज्यः, अतश्चैतद् मृषाभाषा निरर्थिका' सम्यगभिधेयशून्या, तत एव च "संजममाणो वि" त्ति अपिरेवकारार्थः, ततः 'संयच्छन्नेव' उपरमन् एव तदुक्त्याकर्णनादिभ्यः 'अहमिति आत्मनिर्देशो विशेषेण तत्स्थिरीकरणार्थम् , उक्तं हि-"ठिओ ठावए परं" ति 'वसामि' तिष्ठामि उपाश्रय इति शेषः, "इरियामि य" त्ति 'ईरे च' गच्छामि गोचरादिष्विति सूत्रार्थः ॥ २६ ॥ कुतः पुनस्त्वं तदुक्त्याकर्णनादिभ्यः संयच्छसि ? इत्याहसच्चे ते विदिता मज्झं, मिच्छादिट्टी अणारिया। विजमाणे परे लोए, सम्मं जाणामि अप्पगं ॥२७॥ ___ व्याख्या-सर्वे 'ते' क्रियादिवादिनो विदिता मम, यथाऽमी मिथ्यादृष्टयः तत एव 'अनार्याः' अनार्यकर्मप्रवृत्ताः। कथं पुनस्ते एवंविधास्तव विदिताः ? इत्याह-विद्यमाने सति 'परलोके' अन्यस्मिन् जन्मनि सम्यगू जानामि आत्मानम् , ततः परलोकात्मनः सम्यग्वेदनाद् मम ते विदिताः, ततोऽहं तदुक्त्याकर्णनादिभ्यः संयच्छामीति सूत्रार्थः ॥ २७ ॥ कथं पुनस्त्वं महात्मन् ! आत्मानमन्यजन्मनि जानासि ? इत्याहअहमासी महापाणे, जुइमं वरिससओवमे।जा सा पाली महापाली, दिवावरिससओवमा ॥२८॥ से चुए बंभलोगाओ, माणुस्सं भवमागए। अप्पणो य परेसिं च, आउं जाणे जहा तहा ॥२९॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy