SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥ २१६ ॥ कुरुते, बलक्षोभं न संशयः ॥ १ ॥ गान्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य राज्ञस्तद्विजयङ्करम् ||२||" इत्यादि । तथा 'स्वप्नं' स्वप्नगतं शुभाशुभकथनम्, यथा - " गायने रोदनं ब्रूयाद्, नर्त्तने वधबन्धनम् । हसने शोचनं ब्रूयात्, पठने कलहं तथा ॥१॥" इत्यादि । तथा 'लक्षणं' स्त्रीपुरुषादीनाम्, यथा – “चंक्खुसिणेहे सुहिओ, दंतसिणेहे य भोयणं मिट्ठे । तयणेहेण य सोक्खं, नहने होइ परमधणं ॥ १||" इत्यादि । तथा "दंड" त्ति 'दण्डः' यष्टिः, तत्स्वरूपकथनम् — “एगेपवं पसंसंती "त्यादि । तथा 'वास्तुविद्या' प्रासादादिलक्षणाभिधायकं शास्त्रम् । तथा 'अङ्गविकारः ' शिरःस्फुरणादिः, तच्छुभाशुभ स्वरूपकथनम्, यथा — "सिरफुरणे किर रज्जमि"त्यादि । तथा स्वरस्य - दुर्गाशिवादिरुतरूपस्य विजय: - तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, यथा – “सामा - सारस- वायस - कोसिय- सियवत्त-रासह - सिवाओ । जंबुय-वसहा वामा, पत्थाणे कज्जसिद्धियरा ॥ १ ॥" इत्यादि । ततो य एताभिर्विद्याभिर्न जीवति नैता एव जीविकाः प्रकल्प्य प्राणान् धारयति स भिक्षुरिति सूत्रार्थः ॥ ७ ॥ तथा — मंतं मूलं विविहं विज्जचिंतं, वमण-विरेयण धूम - नेत्त सिणाणं । आउरे सरणं तिगिच्छ्यिं च तं परिन्नाय परिवए स भिक्खू ॥ ८ ॥ व्याख्या—‘मन्त्रम्’ ॐकारादिस्वाहापर्यन्तम् 'मूल' मूलिका कोशामिहितं शरपुङ्खामूलिकादि 'विविध' नानाप्रकारं | 'वैद्यचिन्तां ' वैद्यसम्बन्धिनीं पथ्यौषधादिव्यापारात्मिकां चिन्ताम्, यथा – “वर्जयेद् द्विदलं शूली, कुष्ठी मांसं ज्वरी १ “चक्षुः स्नेहे सुखितो, दन्तस्नेहे च भोजनं मिष्टम् । त्वक्स्नेहेन च सौख्यं नखस्ने हे भवति परमधनम् ॥ १ ॥” २ " एकप प्रशंसन्ति” । ३ “शिरःस्फुरणे किल राज्यम्” । ४ “यामा सारस - वायस - कौशिक - शतपत्र - रासभ- शिवाः । जम्बुक-वृषभा वामाः प्रस्थाने कार्यसिद्धिकराः ॥ १ ॥ " 8 XXX पञ्चदशं सभिक्षु नामकम ध्ययनम् । भिक्षोर्गुण वक्तव्यता । ॥ २१६ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy