________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
| चतुर्दशं इषुकारीयाख्यमध्ययनम्।
पूर्वमसन्त एवोत्पद्यन्ते । तथा "नासई" त्ति नश्यन्ति “नावचिहृति" न पुनरवतिष्ठन्ते शरीरनाशे तन्नाशात् , इति सूत्रार्थः ॥ १८ ॥ कुमारकावाहतुः
नो इंदियग्गिज्झ अमुत्तभावा, अमुत्तभावा वि य होइ णिच्चो ।
___ अज्झत्थहेउं निययस्स बंधो, संसारहेउं च वयंति बंधं ॥१९॥ व्याख्या-'नो' नैव इन्द्रियग्राह्यः सत्त्व इति प्रक्रमः, अमूर्तभावात् , तथा अमूर्तभावादपि च भवति नित्यः, तथा हि-यद् द्रव्यत्वे सति अमूर्त तद् नित्यम् आकाशवत्। न चैवममूर्त्तत्वादेव तस्य सम्बन्धासम्भवः, यतः "अज्झत्थहे निययऽस्स बंधो" अध्यात्मशब्देन आत्मस्था मिथ्यात्वादय इहोच्यन्ते, ततस्तद्धेतुः-तन्निमित्तो नियतः-निश्वितो बन्धः-कर्मभिः संश्लेषः, यथाऽमूर्तस्याऽपि नभसो मूत्तैरपि घटादिभिः सम्बन्ध एवमस्यापि कर्मभिर्मूतैरपि न विरुध्यते, तथा संसारहेतुं च वदन्ति बन्धमिति सूत्रार्थः ॥ १९॥ यत एवमस्ति आत्मा बन्धश्च तस्य इत्यत:
जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा।
ओरुज्झमाणा परिरक्खियंता, तं नेव भुज्जो वि समायरामो॥२०॥ व्याख्या-यथा वयं 'धर्म' सम्यग्दर्शनादिकम् अजानानाः 'पापं' पापहेतुं 'पुरा' पूर्व कर्म' अनुष्ठानं "अकासि" त्ति 'अकार्म' कृतवन्तः 'मोहात्' अज्ञानात् 'अवरुध्यमानाः' निर्गमं गृहादलभमानाः परिरक्ष्यमाणाः' अनुजीविभिरनुपाल्यमानाः 'तत्' पापकर्म नैव 'भूयोऽपि' पुनरपि समाचरामः, यथावद् विदितवस्तुत्वादिति सूत्रार्थः ॥ २० ॥ अन्यच्च
अब्भाहयम्मि लोयम्मि, सवओ परिवारिए। अमोहाहिं पडंतीहिं, गिहंसि ण रइं लभे ॥२१॥ १ अरूपं हि यथाऽऽकाशं, रूपिद्व्यादिभाजनम् । तथा मरूपी जीवोऽपि, रूपिकर्मादिभाजनम् ॥१॥
षण्णाम् इषुकारराजादीनां वक्तव्यता।
॥२०८॥
॥२०८॥