SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ *OXOXOXOXOXOXOXOXOXOXXX प्रादुर्भवति । तथा स एव भवति 'कृत्यानां' उचितानुष्ठानानां कलुषान्तःकरणवृत्तिभिरविनीतविने यैरतिदूरमुत्सादितानां el'शरणं" आश्रयः, 'भूतानां प्राणिनां 'जगती' पृथ्वी यथेति सूत्रार्थः ॥ ४५ ॥ ननु विनयः पूज्यप्रसादनफलः, ततोऽपि Aच किमवाप्यते ? इत्याह पुज्जा जस्स पसीयंति, संबुद्धा पुवसंथुया । पसन्ना लाभइस्संति, विउलं अट्ठियं सुयं ॥४६॥ व्याख्या-'पूज्याः' आचार्यादयः 'यस्य' शिक्षकस्य 'प्रसीदन्ति' सन्तुष्यन्ति 'संबुद्धाः' सम्यगवगततत्त्वाः, पूर्व-वाचनादिकालादारतो न तु वाचनादिकाल एव, तत्कालविनयस्य कृतप्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात् , संस्तुताःविनयविषयत्वेन परिचिताः सम्यक् स्तुता वा सद्भूतगुणोत्कीर्तनादिभिः पूर्वसंस्तुताः, 'प्रसन्नाः' सप्रसादाः 'लाभयिष्यन्ति' प्रापयिष्यन्ति, 'विपुलं' विस्तीर्ण 'अर्थः-मोक्षः स एव प्रयोजनमस्येत्यर्थिकं 'श्रुतं' अङ्गोपाङ्गादिभेदमागमम् , अनेन पूज्य|प्रसादस्यानन्तरफलं श्रुतमुक्तं, व्यवहितफलं तु मुक्तिरिति सूत्रार्थः ।। ४६ ॥ सम्प्रति श्रुतावाप्तौ तस्यैहिकं फलमाह स पुजसत्थे सुविणीयसंसए, मणोरुई चिट्ठइ कम्मसंपया। तवोसमायारिसमाहिसंबुडे, महजई पंचवयाइँ पालिया ॥४७॥ व्याख्या-'स इति शिष्यः प्रसादितगुरोरधिगतश्रुतः 'पूज्यशास्त्रः' श्लाघ्यशास्त्रः विनीतस्य हि शास्त्रं विशेषेण सर्वत्र पूज्यते । सुष्टु-अतिशयेन विनीतः-अपनीतः प्रसादितगुरुणैव शास्त्रपरमार्थसमर्पणेन संशयः-सूक्ष्मपदार्थविषयः संदेहो यस्य स सुविनीतसंशयः, मनसः-चेतसः प्रस्तावाद् गुरुसम्बन्धिनो रुचिः-अभिलाषोऽस्मिन्निति मनोरुचिः तिष्ठति' आस्ते, विनयाधिगतशास्त्रो हि न कथञ्चिद् गुरूणामप्रीतिहेतुर्भवति । कया हेतुभूतया मनोरुचिः ? कर्म-क्रिया दशविधचक्रवालसामाचारीप्रभृतियतिकर्तव्यता तस्याः संपत् संपन्नता कर्मसंपत् तया । तपसः-अनशनादेः सामाचारी-समा
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy