________________
चित्रसम्भूतमुन्योः सौत्री वक्तव्यता।
उषितौ 'श्वपाकनिवेशनेषु' चाण्डालगृहेषु ॥ कदाचित् तत्राऽपि विज्ञानविशेषादिना अहीलनीयावेव स्यातामित्याह-तस्यां *च 'जातो' श्वपाकसम्बन्धिन्यां च, 'तुः' विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका-कुत्सिता
तस्यां "बुच्छे" त्ति उषितौ "मु” इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य 'जुगुप्सनीयौ' हीलनीयौ । 'इहे'त्यस्मिन् जन्मनि Mail'तुः' पुनरर्थः तत इह पुनः 'कर्माणि' शुभानुष्ठानानि "पुरेकडाई" पूर्वकृतानि विशिष्टजात्यादीनां निवन्धनमिति शेषः ।
ततः उत्पन्न प्रत्ययैः पुनस्तदुपार्जनायैव यत्नो विधेयो न तु विषयाभिष्वङ्गव्याकुलितमानसैरेव स्थेयमिति भावः ॥ यत्तश्चैवमतः 'सः' इति सम्भूतनामा अनगार आसीत् । "दाणिसिं" ति देशीयभाषया इदानीं राजा महानुभागो महर्द्धिक: पुण्यफलोपेतश्च सन् दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः। किं कृत्वा ? इत्याह-त्यक्त्वा भोगान् अशाश्वतान् , आदीयतेसद्विवेकैर्गृह्यते इति आदान:-चारित्रधर्मस्तद्धेतोः 'अभिनिष्क्राम' आभिमुख्येन प्रव्रजितो भव, गृहस्थतायां हि न सर्वविरतिरूपचारित्रसम्भव इति सूत्रत्रयार्थः ॥ १८-१९-२०॥ क इव तदकरणे दोषः ? इत्याह
इह जीविए राय ! असासयम्मि, धणियं तु पुन्नाइं अकुत्वमाणो ।
सो सोयई मचुमुहोवणीए, धम्म अकाऊण परम्मि लोए ॥२१॥ व्याख्या-इह 'जीविते' मनुष्यसम्बन्धिन्यायुषि राजन् ! 'अशाश्वते' अस्थिरे “धणियं तु" त्ति अतिशयेनैव न तु ध्वजपटप्रान्तादिवत् चञ्चलतामात्रेण 'पुण्यानि' पुण्यहेतुभूतानि शुभानुष्ठानान्यकुर्वाणः 'सः' इति पुण्यानुपार्जकः 'शोचते' दुःखातः पश्चात्तापं विधत्ते । मृत्युमुख-मरणगोचरमुपनीतः तथाविधकर्मभिरुपढौकितः सन् धर्ममकृत्वा "परम्भि" त्ति चस्य गम्यमानत्वात् परस्मिंश्च 'लोके' जन्मान्तररूपे गत इति शेषः । नरकादिषु ह्यसह्याऽसातवेदनार्दितशरीरः शशिनृप