________________
BXOXOXOXOXOXOXOXOXOXOXOXO
वियारमेव भणियं-'किञ्चिरं अजंगमेहिं अम्हेहिं तुब्भे साहुणो य उवरोहणीया? ता वरं उत्तमपुरिसाणुचरियं उत्तमट्ठमेव पडिवज्जामो' त्ति महुरवयणेहिं तेसिं संठविय भत्तं पञ्चक्खायं । सावएहिं महंता अधिई कइ त्ति ॥ इत्येवं बुद्धोपघाती न स्यादिति सूत्रार्थः ॥४०॥ एवं तावत् 'आचार्य न कोपयेत्' इत्युक्तम् । कथश्चित् कुपिताय यत् कृत्यं तदाह
आयरियं कुवियं नच्चा, पत्तिएण पसादए। विज्झविजा पंजलिउडो, वदेज्जा ण पुणो त्ति य॥४१॥ व्याख्या-'आचार्यम्' गुरुं 'कुपितं'सकोपं अननुशासनादिभिः-"पुरिसज्जाए वि तहा विणीयविणयम्मि नत्थि अभिओगो । सेसम्मि उ अभिओगो जणवयजाए जहा आसे ॥ १॥” इत्यागमात् कृतबहिःकोपं वाऽदृष्टिदानादिना 'ज्ञात्वा' अवगम्य "पत्तिएणं" ति प्रीत्या साम्नैव प्रियवचोभाषणा दिना न भेददण्डाद्युपदर्शनेन 'प्रसादयेत् प्रसादं ग्राहयेत् । एतदेवाह-'विध्यापयेत्' कथश्चिदुदीरितकोपाऽनलमप्युपशमयेत् 'प्राञ्जलिपुटः' कृतकरकुडालः । इत्थं कायिकं मानसं च विध्यापनोपायमभिधाय वाचिकं वक्तुमाह-वदेच्च' ब्रूयाच्च, चशब्दो भिन्नक्रमः, न पुनरिति । कथंचित् कृतकोपमपि विध्यापयेत् वदेच्च, यथा-भगवन् ! प्रमादाचरितमिदं मम क्षमितव्यम् , न पुनरित्थमाचरिष्यामीति सूत्रार्थः॥४१॥ सम्प्रति यथा निरपराधतया आचार्यकोप एव न स्यात् तथाऽऽह
धम्मजियं च ववहारं, बुद्धेहाऽऽयरियं सया। तमायरंतो ववहारं, गरहं नाऽभिगच्छइ ॥४२॥ व्याख्या-यत्तदोर्नित्याभिसम्बन्धात् सुव्यत्ययाच्च धर्मेण-क्षान्त्यादिना अर्जितः-उपार्जितः, न हि क्षान्त्यादिधर्मविरहित इमं प्राप्नोति । 'चः' पूरणे, यः 'व्यवहारः' प्रत्युपेक्षणादिर्यतिकर्तव्यतारूपः 'बुद्धैः' अवगततत्त्वैः 'आचरितः'
. "पुरुषजातेऽपि तथा विनीतविनये नास्त्यमियोगः । शेषे स्वमियोगो, जनपदजाते यथाऽश्वे ॥१॥".