________________
सौत्री
Seतिकर्मतया रजोदिग्धदेहतया च तदेव लोकैरुत्सृज्यते, ततात इति सूत्रद्वयार्थः ॥ ५
'इदं वक्ष्यमाणं वचनं "अब्बवि" त्ति 'अब्रुवन्' उक्तवन्तः ॥ किं तत् ? इत्याह-"कयरे" त्ति कतरः, एकारस्तु साहरिकेशमुनेः प्राकृतत्वात् , आगच्छति 'दीप्तरूपः' बीभत्सरूपः, कालः वर्णतः, 'विकरालः' दन्तुरत्वादिना भयानकः, “फोक" त्ति | देशीयपदम् , ततश्च फोका-अग्रे स्थूला उन्नता च नासाऽस्येति फोकनासः, 'अवमचेलः' निकृष्टचीवरः, पांशुना-रजसा
वक्तव्यता। पिशाचवद् भूतः-जातः पांशुपिशाचभूतः, पिशाचो हि लौकिकानां दीर्घश्मश्रुनखरोमा पांशुगुण्डितश्च इष्टः, ततः सोऽपि निष्प्रतिकर्मतया रजोदिग्धदेहतया चैवमुच्यते । सङ्करः-कचवरः, स च प्रस्तावादुत्कुरुडिकारूपस्तत्र दूष्यं-वस्त्रं सङ्करदूष्यं, | तत्र हि यदत्यन्तनिकृष्टं निरुपयोगि तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायमन्यदपि तथोक्तम्, 'परिवृत्य' निक्षिप्य 'कण्ठे' गले, स हि अनिक्षिप्तोपकरणतया स्वमुपकरणमादायैव भ्राम्यतीत्येवमुक्त इति सूत्रद्वयार्थः॥५-६॥ इत्थं दूरादागच्छन् उक्तः । आसन्नं चैनं किमूचुः ? इत्याह
कतरे तुम इय अहंसणिजे ?, काए व आसाइहमागओ सि । . ओमचेलगा! पंसुपिसायभूया !, गच्छ क्खलाहि किमिह हिओ सि१॥७॥ __ व्याख्या-कतरस्त्वम् ?, पाठान्तरतश्च को रे त्वम् ?, अधिक्षेपे रेशब्दः, 'इति' इति एवं 'अदर्शनीयः' अद्रष्टव्यः । 'कया वा' किं रूपया वा “आसाइहमागओऽसि" त्ति प्राकृतलक्षणाद् एकारलोपो मकारश्चाऽऽगमिकः, ततः 'आशया' वाञ्छया 'इह' यज्ञपाटके 'आगतः' प्राप्तः 'असि' भवसि ?, अवमचेलक ! पांशुपिशाचभूत !, पुनरनयोरुपादानमत्यन्ताधिक्षेपदानार्थम् , 'गच्छ' ब्रज "खलाहि" त्ति देशीयपदम् 'अपसर' इत्यस्यार्थे वर्त्तते, ततोऽयमर्थः-अस्मदृष्टिपथादपसर, किमिह स्थितोऽसि त्वम् ? नैवेह त्वया स्थातव्यमिति सूत्रार्थः ॥ ७॥ एवमधिक्षिप्ते तस्मिन् मुनौ प्रशमपरतया किश्चिदजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यदचेष्टत तदाह
XOXOX8XOXOXOXOXOXOXOXOXOXO)