________________
न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ । न मुंजे ऊरुणा ऊरूं, सयणे ण पडिस्सुणे ॥१८॥
व्याख्या-न पक्षतो-दक्षिणादिपक्षमाश्रित्य, उपविशेदिति शेषः, तथोपवेशने तत्पतिसमावेशतस्तत्साम्याधानेनाऽविनयाभावाद् गुरोरपि वक्रावलोकने स्कन्धकन्धरादिबाधासंभवात् । न पुरतो-अग्रतः, तत्र वन्दकजनस्य गुरुवदनाऽनवलोकादिना अप्रीतिभावात् । नैव कृत्यानां-कृतिकर्माहर्हाणां गुरूणां पृष्ठतः-पृष्ठमाश्रित्य, द्वयोरपि मुखाऽदर्शने तथाविधरसवत्ताभावात् । न युझ्याद्-न संघट्टयेदत्यासन्नोपवेशनादिभिरुरुणा-आत्मीयेन उरु-गुरुसम्बन्धिनं, तथाकरणे कृत्याविनयसद्भावात् । उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिहारस्य । शयने-शय्यायां शयित आसीनो वेति शेषः, किम् ? इत्याह-न प्रतिशृणुयात् । किमुक्तं भवति ?-शय्यागतो गुरुणाऽऽकारित उक्तो वा कृत्यं प्रति न तथास्थित एवाऽवज्ञया कुर्म एवमित्यादिवचनतः प्रतिजानीयात्, किन्तु गुरुवचनसमनन्तरमेव संभ्रान्तचेता विनयविरचिताञ्जलिः समीपमागम्य | पादपतनपुरस्सरमनुगृहीतोऽहमिति मन्यमानो भगवन् ! इच्छामोऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ तथानेव पल्हत्थियं कुज्जा, पक्खपिंडं व संजए । पाए पसारए वा वि, ण चिठे गुरुणंतिए ॥ १९॥
व्याख्या-नैव पर्यस्तिकां-जानुजङ्घोपरि वस्रवेष्टनरूपां कुर्यात् , पक्षपिण्डं वा-बाहुद्वयकायपिण्डनात्मकं संयतःसाधुः, तथा पादौ प्रसारयेद् वापि नैव । वा-समुच्चये । अपि-किं पुनरित इतो विक्षिपेदिति दर्शनार्थः । अन्यच्च न तिष्ठेत्-नाऽऽसीत गुरूणामन्तिके-प्रक्रमादतिसन्निधौ, किन्तूचितदेश एव, अन्यथाऽविनयदोषसंभवात् । उपलक्षणं चैतदुपष्टम्भादीनामिति सूत्रार्थः ॥ १९ ॥ तथाआयरिएहिं वाहिंतो, तुसिणीओ ण कयाइ वि। पसायपेही णियागट्टी, उवचिठे गुरुं सया ॥२०॥
XOXOXOXXXXXXXXXX