SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृत्तिः । ॥ १२० ॥ xoxoxoxoxoxoxoxoxoxoxox-OX माणुसतं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, णरगति रिक्खत्तणं धुवं ॥ १६ ॥ व्याख्या – 'मानुषत्वं' मनुजत्वं 'भवेत्' स्यात् मूलमिव 'मूलं' स्वर्गापवर्गात्मकतदुत्तरोत्तरलाभ हेतुतया, तथा लाभ इव 'लाभ:' मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्टत्वात् 'देवगतिः' देवत्वावाप्तिर्भवेत् । एवं च स्थिते किम् ? इत्याह'मूलच्छेदेन' मनुष्यगतिहान्यात्मकेन 'जीवानां' प्राणिनां 'नरकतिर्यक्त्वं' नरकत्वं तिर्यक्त्वं च तद्गत्यात्मकं 'भुवं' निश्चितम् । इहापि सम्प्रदायः - 1 तिन्नि संसारिणो सत्ता माणुस्सेसु भवेसु आगया । तत्थेगो संजमेण लद्धमद्दवज्जवाइगुणसंपन्नो मज्झिमारंभपरिग्गहजुत्तो कालं काऊण काहावणसहस्समूलत्थाणीयं तमेव माणुसत्तं पडिलभइ । बीओ पुण सम्मदंसणचरित्तगुणपरिसुट्ठिओ सरागसंजमेण लद्धलाभवणिओ व देवेसु उववन्नो । तइओ पुण "हिंसे बाले मुसावाई" इच्चेएहिं पुवभणिएहिं सावज्जजोगेहिं बट्टिउं छिन्नमूलवणिय इव नरगेसु तिरिएसु वा उववज्जइ वि सूत्रार्थः ॥ १६ ॥ यथा मूलच्छेदेन नारकतिर्यक्त्वप्राप्तिस्तथा स्वयं सूत्रकृदाह दुहओ गती बालस्स, आवई वहमूलिया । देवत्तं माणुसत्तं च, जं जिए लोलया सढे ॥ १७ ॥ व्याख्या - "दुहओ" त्ति 'द्विधा' द्विप्रकारा 'गतिः' सा च प्रक्रमात् नरकगतिः तिर्यग्गतिश्च 'बालस्य' रागद्वेषा| भ्यामाकुलितस्य भवतीति गम्यते । तत्र च गतस्य " आवइ" त्ति आपत्, सा च कीदृशी ? वधः - विनाशो वा ताडनं मूलम् - आदिर्यस्याः सा तथा, मूलग्रहणात् छेदभेदातिभारारोपणादिपरिग्रहः । अनुभवन्ति हि नरकतिर्यक्षु जन्तवो विविधा वधाद्यापदः । उक्तश्च – “छिज्जति तिक्खसत्थेहिं, डज्यंते परमग्गिणा । सीउण्हेहिं विलिज्जंति, निप्पीलिज्जंति जंतए ॥ १ ॥ १ "छिद्यन्ते तीक्ष्णशस्त्रैः दह्यन्ते परमाभिना । शीतोष्णैर्बिलीयन्ते, निपील्यन्ते यत्रके ॥ १ ॥ सप्तमं औरश्रीयमध्ययनम् । धर्मविषया उपमा । ॥ १२० ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy