________________
दार्टान्तिकयोजना।
व्याख्या-एवमिति काकिण्याम्रसदृशा मनुष्याणाममी मानुष्यकाः 'कामाः' विषयाः देवकामानाम् 'अन्तिके | समीपे । किमित्येवम् ? अत आह-'सहस्रगुणिताः' सहस्रेस्ताडिता दिव्यकाः कामा इति सम्बन्धः, 'भूयः' बहून् वारान् , मनुष्यायुःकामाऽपेक्षया इति प्रक्रमः । अनेनैषामतिभूयस्त्वं सूचयन् कार्पापणसहस्रराज्यतुल्यतामाह । 'आयुः' जीवितं 'कामाश्च' शब्दादयः दिवि भवा दिव्यास्त एव दिव्यकाः, इह चादौ "देवकामाणमंतिए” त्ति काममात्रोपादानेऽपि “आउं कामा य दिधिय" त्ति आयुषोऽप्युपादानं तत्रत्यायुरादीनामपि तदपेक्षयैवंविधत्वस्यापनार्थमिति सूत्रार्थः॥१२॥ मनुष्यकामानामेव काकिण्याम्रफलोपमत्वं भावयितुमाहअणेगवासाणउया, जा सा पन्नवओ ठिई। जाणि जीयंति दुम्मेहा, ऊणे वाससयाउए ॥१३॥
व्याख्या-वर्षाणां-वत्सराणां नयुतानि-संख्याविशेषा वर्षनयुतानि, प्राकृतत्वात् सकारस्याकारः । नयुताऽऽनयनोपायस्त्वयम्-चतुरशीतिवर्षलक्षाः पूर्वाङ्गम् , तच्च पूर्वाङ्गेन गुणितं पूर्वम् , पूर्व चतुरशीतिलक्षाहतं नयुताङ्गम् , नयुतानं चतुरशीतिलक्षाहतं नयुतमिति । अनेकानि च तानि वर्षनयुतानि च अनेकवर्षनयुतानि, प्राकृतत्वात् पुंस्त्वम् । का एवमुच्यते ? इत्याह-'या से'ति प्रज्ञापकः शिष्यान् प्रत्याह-या सा भवतामस्माकं च प्रतीता, प्रज्ञानं प्रज्ञा-प्रकृष्टज्ञानं तद्वतः, न च क्रियाविकलं ज्ञानं प्रकृष्टं भवति, "तज्ज्ञानमेव न भवति, यस्मिन् रागादयः प्रकाशन्ते" इतिवचनात् । ततश्च प्रज्ञावतः-शानक्रियावतः 'स्थितिः' देवभवायूरूपा, अधिकृतत्वात् दिव्यकामाश्च । तानि च कीदृशानि ? इत्याह-'यानि' अनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि 'जीयन्ते' हार्यन्ते तद्धेतुभूतानुष्ठानाऽनासेवनेनेति भावः, 'दुर्मेधसः' दुर्बुद्धयो विषयैर्जिता जन्तव इति गम्यते । कदा पुनर्दुर्मेधसो विषयीयन्ते ? इत्याह
यद्वाऽनेकानि वर्षनयुतानि येषु तान्यनेकवर्षनयुतानि उभयत्रार्थतः पल्योपमसागरोपमाणीति यावत् ।