SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ उरभ्रष्टा अथ औरभ्रीयाख्यं सप्तममध्ययनम् । =00000000 व्याख्यातं क्षुल्लकनिर्ग्रन्थीयं षष्ठमध्ययनम् । साम्प्रतमौरभ्रीयं सप्तममारभ्यते । अस्य चायमभिसम्बन्धः-'इहानन्तराध्ययने निर्मन्थत्वमुक्तम् , तच्च रसगृद्धिपरिहारादेव जायते, स च विपक्षेऽपायदर्शनात्, तच्च दृष्टान्तोपन्यासद्वारेणैव परिस्फुटं भवतीति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते' इत्यनेन सम्बन्धेनाऽऽयातमिदमध्ययनम् । अत्र चोरभ्रादिदृष्टान्तपश्चकमभिधेयम् । यदाह नियुक्तिकृत-"ओरब्भे कागिणी अंबए य ववहारे सायरे चेव । पंचेए दिटुंता, ओरब्भीयम्मि अज्झयणे ॥ १॥" तत्रोरभ्रदृष्टान्ताभिधायकमिहादिसूत्रम्| जहाऽऽएसं समुहिस्स, कोइ पोसेज एलयं । ओयणं जवसं देजा, पोसिजा वि सयंगणे ॥१॥ व्याख्या-'यथे'त्युदाहरणोपन्यासे, आदिश्यते-आज्ञाप्यते विविधव्यापारेषु परिजनोऽस्मिन्नायाते इत्यादेश:अभ्यर्हितः प्राघुर्णस्तं 'समुद्दिश्य' आश्रित्य यथाऽसौ समेष्यति समागतश्चैनं भोक्ष्यते इति 'कश्चित्' परलोकापायनिरपेक्षः 'पोषयेत्' पुष्टं कुर्यात् 'एलकम्' ऊरणकम् , कथम् ? इत्याह-'ओदनं' भक्तम् , तद्योग्यशेषानोपलक्षणमेतत् , 'यवसं' मुद्माषादि 'दद्यात्' तदप्रतो ढौकयेत्, तत एव पोषयेत् । पुनर्वचनमादरख्यापनाय, 'अपिः' सम्भावने, सम्भाव्यते एवंविधः गुरुकर्मेति । 'स्वकाङ्गणे' स्वकीयगृहप्राङ्गणे, अन्यत्र नियुक्तकाः कदाचिन्नौदनादि दास्यन्तीति स्वकाङ्गण इत्युक्तम् । इहोदाहरणं सम्प्रदायादवसेयम् . "उरभ्रः काकिनी मानकं च व्यवहारः सागरीव । पञ्चैते दृष्टान्ता, औरभीये अध्ययने ॥७॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy