________________
पञ्चनिर्ग्रन्थवक्तव्यता।
शरीरा वर्णादिमन्तश्च भविष्यामः ?, 'कायेन' रसायनाद्यपयोगेन, 'वाक्येन' वचसा रसायनादिप्रश्नात्मकेन, 'सर्वे' निरव- शेषाः 'ते' ज्ञानादेव मुक्तिरित्यादिवादिनः 'दुःखसम्भवाः' इहान्यजन्मनि च दुःखभाज इति सूत्रार्थः ।। १२ ।। यथैवते दुःखभाजनं तथा दर्शयन्नुपदेशसर्वस्वमाह
आवण्णा दीहमद्धाणं, संसारम्मि अणंतए । तम्हा सबदिसं पस्स, अप्पमत्तो परिवए ॥१३॥ ___ व्याख्या-'आपन्नाः' प्राप्ताः 'दीर्घम्' अनाद्यनन्तं अध्वानमिव 'अध्वानम्' उत्पत्तिप्रलयरूपम् एकत्रावस्थितेरभावात् । | 'संसारे' चतुर्गतिके 'अनन्तके' अपर्यवसाने "तम्ह" त्ति यस्मादेवमेते मुक्तिपरिपन्थिनो दुःखसम्भवाः तस्मात् , “सबदिसं" ति सर्वदिशः-प्रस्तावाद् अशेषभावदिशः, ताश्च पृथिव्याद्यष्टादशभेदाः । उक्तश्च-"पुढवि-जल-जलण-वाया, मूला खंध-ऽग्ग-पोरबीया य । बितिचउपणिदितिरिया, नारया देवसंघाया ॥ १॥ सम्मुच्छिम-कम्मा-ऽकम्म-भूमिगनरा तहतरद्दीवा । भावदिसा दिस्सइ जं, संसारी निययमेयाहिं ॥ २॥" पश्यन् 'अप्रमत्तः' प्रमादरहितो यथतेषामेकेन्द्रियादीनां विराधना न भवति तथा 'परिव्रजेः' संयमाध्वनि यायाः सुशिष्य ! इति सूत्रार्थः ॥ १३ ॥ यथा चाऽप्रमत्तेन प्रव्रजितव्यं तथा दर्शयितुमाहबहिया उड्डमादाय, नाऽवकंखे कयाइ वि । पुवकम्मक्खयहाए, इमं देहं समुद्धरे ॥१४॥ __ व्याख्या-"बहिय" ति 'बहिः' बहिर्भूतं भवादिति गम्यते, 'ऊर्द्धम्' सर्वोपरिस्थितम् अर्थात् मोक्षम् 'आदाय' गृहीत्वा मयैतदर्थं यतितव्यमिति निश्चित्य 'नावकाङ्केत्' विषयादिकं नाऽभिलपेत् 'कदाचिदपि' उपसर्गपरीषहाऽऽकुलित
"पृथिवी-जल-ज्वलन-वाताः, मूला-स्कन्धा-उग्र-पर्व बीजानि च । द्वि-त्रि-चतुः-पञ्चद्रियतियञ्चश्च नारका देवसङ्घाताः ॥ १॥ सम्मूछिम-कर्मा-कर्मभूमिगनरास्तथाऽऽन्तरद्वीपाः । भावदिदाः दिश्यते यत् , संसारी नियतमेताभिः ॥ २ ॥"