SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ पञ्चनिर्ग्रन्थवक्तव्यता। नम्' आहारं न तु गृहस्थपात्रे बहुदोषसम्भवात् । यदुक्तम्-"पच्छाकम्मं पुरेकम्मं, सिया तत्थ ण कप्पइ । एयमहं न भुंजंति, निग्गंथा गिहिभायणे ॥ १॥" अनेन परिग्रहात्मकाऽऽश्रवनिरोध उक्तः, तदेवं "तन्मध्यपतितः तद्हणेन गृह्यते' इति न्यायात्, मृषावादा- दत्तादानमैथुनात्मकाऽऽश्रवत्रयनिरोध उक्त इति सूत्रार्थः ॥ ८॥ एवं पञ्चाश्रवविरमणात्मके संयम उक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाह इहमेगे उ मन्नंति, अप्पचक्खाय पावगं । आयारियं विदित्ता णं, सबदुक्खा विमुच्चइ॥९॥ व्याख्या-'इह' जगति 'एके' केचन कुतीर्थिकाः 'तु:' पुनरर्थे, 'मन्यन्ते' अभ्युपगच्छन्ति यथा 'अप्रत्याख्याय' अनिराकृत्य ‘पापक' प्राणातिपातादिविरतिम् अकृत्वैव "आयारियं" ति 'आचारिकं' निजनिजाऽऽचारभवमनुष्ठानमेव तत् EDI'विदित्वा' यथावत् ज्ञात्वा 'सर्वदुःखात्' शारीरमानसाद् विमुच्यते । एवं सर्वत्र ज्ञानमेव मुक्त्यङ्गम् , न चैतच्चारु, नहि रोगिण इवौषधादिपरिज्ञानतो भावरोगेभ्यः ज्ञानावरणादिकर्मभ्यो महाव्रतात्मकपञ्चाङ्गोपलक्षितक्रियामननुष्ठाय मुक्तिः। ते चैवमनालोचयन्तो भवदुःखाऽऽकुलिता वाचालतयैवाऽऽत्मानं स्वस्थयन्ति । तथा चाह भणंता अकरंता य, बंधमोक्खपइनिणो । वायाविरियमेत्तेणं, समासासंति अप्पयं ॥१०॥ व्याख्या-'भणन्तः' प्रतिपादयन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति, अकुर्वन्तश्च मुक्त्युपायमनुष्ठानम्, बन्धमोक्षयोः प्रतिज्ञा-अभ्युपगमो बन्धमोक्षप्रतिज्ञा तद्वन्तः अस्ति बन्धः अस्ति मोक्ष इत्येवं वादिन एव केवलं न तु तथाऽनुष्ठायिनः, वाग्वीर्यम्-वचनशक्तिः वाचालतेति यावत् तदेवाऽनुष्ठानशून्यं वाग्वीर्यमानं तेन 'समाश्वासयन्ति' ज्ञानादेव वयं मुक्तियायिन इति स्वस्थयन्त्यात्मानमिति सूत्रार्थः ।। १० । यर्थतत् न चारु तथा खत एवाह- . १ "पश्चात्कर्म पुरःकर्म, स्यात्तत्र न कल्पते । एतदर्थ न भुञ्जन्ति, निम्रन्था गृहिभाजने ॥१॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy