SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ शिष्योपदेशः। तओ काले अभिप्पए, सड्डी तालीसमंतिए। विणएज लोमहरिसं, भेदं देहस्स कंखए ॥ ३१॥ व्याख्या-'ततः' कषायोपशमानन्तरं 'काले' मरणकाले 'अभिप्रेते' अभिरुचिते, कदा च मरणमभिप्रेतम् ? यदा Xयोगा नोत्सर्पन्ति “सद्धि" ति श्रद्धावान् 'तादृशं' भयोत्थं 'अन्तिके' समीपे गुरूणामिति गम्यते, 'विनयेत्' अपनयेत् 'रोमहर्ष' रोमाञ्चं 'हा ! मम मरणं भविष्यति' इत्यभिप्रायजं, किञ्च 'भेदं' विनाशं देहस्य काङ्केत् , त्यक्तपरिकर्मतया न तु मरणाऽऽशंसया, वर्जनीयत्वादस्या इति सूत्रार्थः ॥ ३१ ॥ निगमयितुमाहअह कालम्मि संपत्ते, आघायाय समुस्सयं। सकाममरणं मरइ, तिण्हमण्णयरंमुणी॥३२॥त्ति बेमि॥ व्याख्या-'अथ' मरणाभिप्रायानन्तरं 'काले' मरणकाले 'सम्प्राप्ते' "निफाइया य सीसा, सउणी जह अंडयं पयत्तेणं । बारससंवच्छरियं, अह संलेहं ततो करइ ॥ १ ॥” इत्यादिना क्रमेण समायाते, "आघायाय" ति 'आघाताय' संलेखनादिक्रमेण विनाशाय, सुव्यत्ययात् 'समुच्छ्रयस्य' अन्तः कार्मणशरीरस्य बहिरौदारिकस्य, किं कुर्यात् ? इत्याहसकामस्य-साभिलाषस्य मरणं सकाममरणं तेन म्रियते, 'त्रयाणां' भक्तपरिक्षेङ्गिनीपादपोपगमनानामन्यतरेण, सूत्रत्वात् सर्वत्र विभक्तिव्यत्ययः, 'मुनिः' तपस्वी इति सूत्रार्थः ॥ ३२ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ XXXXOXOXOXOXOXOXXX इति श्रीनेमिचन्द्रसूरिविनिर्मितायां सुखबोधायां उत्तराध्ययनसूत्रलघुटाकाया जा टीकायां अकाममरणीयाख्यं पञ्चममध्ययनं समाप्तम् ॥ J उ०अ०१९ १ "निष्पादिताश्च शिष्याः, शकुनिर्यथाऽण्डकं प्रयनेन । द्वादशसांवत्सरिकमथ, संलेखं ततः करोतिका
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy