________________
CXXXCXCXCXCXCXCXCXCXX
| भन्नंति — रक्खिस्समहं अप्पयं । सा तेणं विवाहिया । गओ वाणिज्जेणं । सा वि दास-भयग-कम्मगराईणं आदेसं दारं तेसिं पुवहिकाइकाले भोयणं देइ, महुराहिं च वायाहिं उच्छाहेइ, भिई च तेसिं अकालपरिहीणं देइ, न य नियगसरीर|सुस्सूसापरा । एवमप्पाणं रक्खंतीए भत्ता उवागओ । सो एवंविहं दद्दूण तुट्ठो । तेण सङ्घसामिणी कया ।
इत्थं तावदिहैव गुणायाऽप्रमादो दोषाय च प्रमाद आस्तामन्यजन्मनि इत्यभिप्रायेण चात्रैहिकोदारणाभिधानम् इि | परिभावनीयमिति सूत्रार्थः ॥ १० ॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्परिहारमाह
मुहं मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं ।
फासा फुसंती असमंजसं च, न तेसु भिक्खू मणसा पउस्से ॥ ११ ॥ मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा ।
रक्खेज कोहं विणएज माणं, मायं न सेवेज्ज पहेज लोहं ॥ १२ ॥
व्याख्या – 'मुहुर्मुहुः' वारं वारं 'मोहगुणाः' तदुपकारित्वात् शब्दादयः तान् 'जयन्तम्' अभिभवन्तम्, किमुक्तं |भवति ? - अविच्छेदतस्तज्जयप्रवृत्तम्, 'अनेकरूपाः' अनेकविधपरुषविषमसंस्थानादिरूपाः, 'श्रमणं' मुनिं 'चरन्तं' संयमाध्वनि गच्छन्तम्, स्पृशन्ति - स्वानि स्वानि इन्द्रियाणि गृह्यमाणतया इति 'स्पर्शाः' शब्दादयः ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बध्नन्ति । 'असमञ्जसमेव' अननुकूलमेव यथा भवति । चशब्दोऽवधारणे । न 'तेषु' स्पर्शेषु 'भिक्षुः' मुनिः मनसाऽपि आस्तां वाचा कायेन, अपेलुप्तस्य दर्शनात्, 'प्रद्विष्यात्' किमुक्तं भवति ? – अमनोज्ञशब्दादिषु कथञ्चिदिन्द्रियमापतितेषु 'अहो ! अनिष्टत्वम्' इति न चिन्तयेत्, न वा वदेत् परिहरेद्वा तान् । तथा मन्दयन्ति - विवेकिनमपि जनमन्यतां
विषय-कपायानां परिहारः ।