________________
श्रीउत्तरा- शरीरम् , उक्तञ्च-"सत्थ-ऽग्गी-जल-सावय-विसूइया-वाहि-अहिविसाईहिं। जजरमिणं सरीरं, उवक्कमेहिं बहुविहेहिं ॥१॥ ध्ययनसूत्रे ऊसासायत्तं, देहं जीवस्स कयलिखंभसमं । जरडाइणिआवासं, का कीरउ तत्थ दीहासा? ॥२॥" एवं तर्हि किं श्रीनैमिच- कृत्यम् ? इत्याह-भारुण्डपक्षीव चराऽप्रमत्तः' यथा भारुण्डपक्षी अप्रमत्तश्चरति तथा त्वमपि प्रमादरहितः चर-विहिन्द्रीयवृत्तिःतानुष्ठानमासेवख, अन्यथा हि
तानुष्ठानमासेवख, अन्यथा हि यथा भारुण्डपक्षिणः पक्ष्यन्तरेण सहान्तर्वर्तिसाधारणचरणसम्भवात् स्वल्पमपि प्रमा
द्यतोऽवश्यमेव मृत्युः । उक्तञ्च-एकोदराः पृथगग्रीवा, अन्यान्यफलभक्षिणः । प्रमत्ता हि विनश्यन्ति, भारुण्डा इव ॥९४॥ पक्षिणः ॥ १॥ तथा तवापि संयमजीवितभ्रंश एव प्रमाद्यत इति सूत्रार्थः ॥ ६ ॥ अमुमेवार्थ स्पष्टयन् आह
चरे पयाई परिसंकमाणो, जं किंचि पासं इह मन्नमाणो ।
लाभंतरे जीविय वूहइत्ता, पच्छा परिन्नाय मलावधंसी ॥७॥ व्याख्या-चरेत्' गच्छेत् मुनिरिति गम्यते, ‘पदानि' पदनिक्षेपरूपाणि 'परिशङ्कमानः' संयमविराधनाभीरुतया | SIतदपायं विगणयन् , किमित्येवम् ? अत आह-यत् किञ्चिद् दुश्चिन्तिताद्यपि प्रमादपदं पाशमिव 'पाशं' बन्धहेतुतया
'मन्यमानः' जानानः । अयमभिप्रायः-यथा भारुण्डपक्षी पदानि परिशङ्कमानश्चरति यत्किञ्चिद् दवरकादिकमपि पाशं मन्यमानः, तथा साधुरपि अप्रमत्तश्चरेत् । ननु यदि परिशङ्कमानश्चरेत् तर्हि सर्वथा जीवितनिरपेक्षेणैव प्रवर्तितव्यम् , तत्सापेक्षतायां हि कदाचिदुक्तदोषसम्भव इत्याशङ्याह-'लाभान्तरे' अपूर्वार्थप्राप्तिविशेषे सति, किमुक्तं भवति ?यावद विशिष्टतरसम्यग्दर्शनज्ञानावाप्तिः अतः सम्भवति तावद् इदं 'जीवितं' प्राणधारणारूपं 'बृंहयित्वा' अकालोपक्रम१ "शस्त्रा-ऽग्नि-जल-श्वापद-विसूचिका-व्याधि-अहि विषादिभिः । जर्जरमिदं शरीरं, उपक्रमैर्बहुविधैः ॥ १॥
यदुच्छ्रासायतं, देहं जीवस्य कदलिस्तम्भसमम् । जराडाकिन्यावासं, का क्रियतां तत्र दीर्घाशा? ॥२॥"
चतुर्थ असंस्कृताख्यमध्यय| नम्। भावसुप्तेषु तपस्विनः प्रतिबुद्धजीविनः।
॥९४॥