________________
प्रथमं विनयाध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥२॥
समीवं । भणिओ-तहा करेहि जहा वेसाली घिप्पइ। ततो तेण अब्भंतरं गंतूण नेमित्तियवेसो कओ। मुणिओ मुणिसुवयथूभप्पभावो । एसो लोगेण पुच्छिओ-कहिं नगररोहो अवगच्छिस्सइ ? । तेण भणियं-जइ एयं थूभं अवणेह । अवणीयं । भग्गा नयरी हलेहिं वाहिय त्ति ॥ ३ ॥ साम्प्रतं दृष्टान्तपूर्वकमविनीतस्यैव सदोषतामाह
जहा सुणी पूइकण्णी, निक्कसिज्जइ सबसो। एवं दुस्सीलपडिणीए, मुहरी निकसिजति॥४॥ व्याख्या-'यथा' यद्वत् शुनी स्त्रीनिर्देशोऽत्यन्तकुत्सोपदर्शकः, पूती-परिपाकतः कुथितगन्धौ कृमिकुलाकुलत्वाद्युपलक्षणमेतत् कौँ-श्रुती यस्याःसा पूतिकर्णी 'निष्कास्यते' निर्वास्यते 'सर्वतः' सर्वेभ्यो गृहाङ्गणादिभ्यः लेष्टुलकुटादिभिः, प्राकृतत्वाच्च 'सबसो' त्ति शसुप्रत्ययः,उपनयमाह-एवम्' अमुना प्रकारेण दुष्ट-रागाद्युपहतं शीलं-स्वभावो यस्य स दुःशीलः प्रत्यनीकः प्राग्वद् अनयोर्विशेषणसमासः, 'मुखरः' बहुविधाऽसम्बद्धभाषी 'निष्कास्यते' सर्वतः कुलगणसङ्घादेरिति सूत्रार्थः॥४॥ आह-अनर्थहेतौ दौःशील्ये किमित्यसौ रमते ? उच्यते-पापोपहतमतित्वात्तत्रैवास्य रतिः, एतदेव दृष्टान्तपूर्वकमाह___ कणकुंडगं चइत्ता णं, विट्ठ भुंजइ सूयरो । एवं सीलं चइत्ता णं, दुस्सीले रमई मिए ॥५॥
व्याख्या-कणाः-तण्डुलास्तेषां तन्मिश्रो वा कुण्डकः-कुकुसः कणकुण्डकस्तं त्यक्त्वा 'विष्ठां' पुरीषं 'भुङ्क्ते' अभ्यवहरति 'सूकरः' ग सूकरो यथेति गम्यते, एवं 'शीलं' प्रस्तावाच्छोभनं त्यक्त्वा दुष्टं शीलं दुःशीलं तत्र 'रमते' धृतिमाधत्ते मृग इव 'मृगः' अज्ञत्वादविनीत इति योगः । इदमत्र हृदयम्-यथा मृगो मरणापायमपश्यन् अज्ञतया गौरीगानाकृष्टो व्याधमनुसरति तथैषोऽपि दुःखाकीर्णभवभ्रमणमनवगच्छन् निर्विवेकतया विट्स्थानीये दुःशीले रमत इति सूत्रार्थः ॥५॥ उक्तोपसंहारपूर्व कृत्योपदेशमाहसुणियाऽभावं साणस्स, सूयरस्स नरस्स य। विणए ठविज अप्पाणं, इच्छंतो हियमप्पणो॥६॥ व्याख्या-'श्रुत्वा' आकर्ण्य 'अभावं' कुत्सार्थत्वान्नञः अशोभनं भावं सर्वतो निःकासनलक्षणं "साणस्स" त्ति प्राकृत
॥२॥