________________
न्यतुल्यान् 'यथायुः' आयुषः अनतिक्रमेण 'पूर्व, पूर्वजन्मसु 'विशुद्धसद्धर्मा' निदानादिरहितत्वेन शुद्धशोभनधर्मः, 'केवलाम्' अकलङ्कां 'बोधि' जिनप्रणीतधर्मप्राप्तिलक्षणां 'बुद्धा' अनुभूय प्राप्येति यावत्॥१९॥ ततोऽपि किम् ? इत्याह
चउरंगं दुल्लहं मच्चा, संजमं पडिवजिया।तवसाधुतकम्मंसे, सिद्धे भवति सासए॥२०॥त्ति बेमि॥ ___ व्याख्या-'चतुरङ्गीम्' अभिहितस्वरूपां दुःप्रापां 'मत्वा' ज्ञात्वा 'संयम' सर्वसावद्यविरतिरूपं 'प्रतिपद्य' आसेव्य |'तपसा' बाह्येनाऽऽन्तरेण च 'धुतकांशः' अपनीतसर्वकर्मभागः सिद्धो भवति 'शाश्वतः' शश्वद्भवनात् । शश्वद्भवनं च |पुनर्भवनिबन्धनकर्मबीजाऽऽत्यन्तिकोच्छेदात् । तथा चाह-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मवीजे तथा दग्धे, न रोहति भवाङ्करः ॥१॥” इति सूत्रार्थः ।। २० । 'इतिः' परिसमाप्तौ ब्रवीमीति प्राग्वत् ।।
॥ इति उत्तराध्ययनटीकायां चतुरङ्गीयाख्यं तृतीयमध्ययनम् ॥