SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ तृतीयं श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥७७॥ koXXXOXOXOXOXOXOXOXOXOXO खेत्तं वत्थं हिरण्णं च, पसवो दासपोरुसं । चत्तारि कामखंधाणि, तत्थ से उवववइ ॥ १७॥ मित्तवं नाइवं होइ, उच्चागोत्ते य वन्नवं । अप्पायंके महापन्ने, अभिजाए जसो बले ॥१८॥xचतुरङ्गीया व्याख्या-क्षेत्रं' ग्रामाऽऽरामादि 'सेतुकेतूभयात्मकं वा, 'वास्तु' खातोच्छ्रितोभयात्मकम् 'हिरण्यं' सुवर्णम् , उपल- |ऽध्ययनम्। क्षणत्वाद् रूप्यादि च, 'पशवः' गोमहिष्यादयः, दासाश्व-प्रेष्यरूपाः 'पोरुसं' ति प्राकृतत्वात् पौरुषेयं च-पदातिसमूहः दासपौरुषेयं, 'चत्वारः' चतुःसंख्याः । अत्र हि क्षेत्रवास्त्विति चैकः, हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दुर्लभस्य दासपौरुषेयमिति चतुर्थः । एते कामाः-मनोज्ञशब्दादयः तद्धेतवः स्कंधाः-तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र भवन्तीति चतुरङ्गस्य गम्यते । प्राकृतत्वाच नपुंसकनिर्देशः । 'तत्र' तेषु कुलेषु सः 'उपपद्यते' जायते । अनेन च एक अङ्गमुक्तम् । शेषाणि तु फलम् । नवाङ्गान्याह-'मित्रवान्' वयस्यवान् , 'ज्ञातिमान्' बन्धुमान् भवति, उँच्चैर्गोत्रः' उत्तमकुलः, 'चः' समुच्चये, “वर्णवान्' प्रशस्तशरीरच्छविः, 'अल्पातङ्कः' आतङ्कविरहितो नीरोग इत्यर्थः, 'महाप्राज्ञः' पण्डितः, 'अभिजातः' विनीतः, स हि सर्वजनाभिगमनीयो भवति, ततश्च विशिष्टविभूतिमान् , 'यशस्वी' ख्यातिमान् , 'बेली' कार्यकरणं प्रति सामर्थ्यवान् , उभयत्र सूत्रत्वात् मत्वर्थीयलोप इति सूत्रद्वयार्थः ॥१७-१८॥ तत् किं एवंविधगुणसम्पत्समन्वितं मानुषत्वमेव तत्फलम् ? इत्याह भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउयं। पुवं विसुद्धसद्धम्मे, केवलं बोहि बुज्झिया ॥१९॥ व्याख्या-भुक्त्वा' आसेव्य 'मानुष्यकान्' मनुष्यसम्बन्धिनः 'भोगान्' मनोज्ञशब्दादीन् 'अप्रतिरूपान्' अन ॥ ७७॥ १ "सस्यात्पत्तिभूमिः क्षेत्रं, तच्च सेतुकेतूभयभेदात् त्रिविधम् , तत्र सेतुक्षेत्रम्-अरहट्टादिसेक्यम् , केतुक्षेत्रं पुनः-आकाशपतितोद| कनिष्पाद्यम् , उभयक्षेत्रं तु-उभयनिष्पाद्यम् । २ वास्तु-अगारं, तदपि त्रिविधम् , खातम्, उच्छ्रितम्, खातोच्छूितम् । तत्र खातम्भूमिगृहकादि, उच्छूितम्-प्रासादादि, खातोरिछ्रतम्-भूमिगृहस्योपरि प्रासादः।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy