________________
ado
स्तौमि वाञ्छितपूरकम् ॥ ६ ॥ सर्वविघ्नहरं सर्वसमृद्धिदं विपद्धरम् । अंतरिक्षप्रभुंपार्श्व स्तौमि वाञ्छितपूरकम् ॥७॥ भूतप्रेतग्रहा यस्य नाम्ना न प्रभवन्ति तम् । अंतरिक्षप्रभुंपार्श्व स्तौमि वाञ्छितपूरकम् ||८|| दुर्गतिघ्नं सुधर्माधिस्थापकं सद्गतिप्रदम् । अंतरिक्षप्रभुं पार्श्व स्तौमि वाञ्छितपूरकम् ॥९॥ अश्वसेनकुलाकाशे भास्करं भविबोधदम् | अंतरिक्षप्रभुंपार्श्व स्तौमि वाञ्छितपूरकम् ॥१०॥ बामादेवीसुतं श्रेष्ठं वात्सल्यवारिधिं शुभम् | अंतरिक्षप्रभुंपार्श्वं स्तौमि वाञ्छितपूरकम् ॥११॥ शिरपुरपुराधीशं भक्तवाञ्छाप्रदं शुभम् । अंतरिक्षप्रभुंपार्श्वस्तौमि वाञ्छितपूरकम् ॥ १२ ॥ कमठोन्मार्गहन्तारं सर्वजीवोपकारकम् । अंतरिक्षप्रभुंपार्श्व स्तौमि वाञ्छितपूरकम् ॥१३॥ गुणाब्धिसूरिर्गच्छेशः पार्श्वं पद्मावतीस्तुतम् । अंतरिक्षप्रभुंपार्श्वं स्तौमि वाञ्छितपूरकम् ॥१४॥
अथ प्रशस्ति : कोडायतलवाणान्तर्द्वासप्तति जिनालये
द्विसहस्रत्रिचत्वारिंशदब्दे (२०४३) जिनपः स्तुत: ॥ १५ ॥
事事事
શ્રી અંતરિક્ષ પાર્શ્વનાથ મહાપૂજનવિધિ ८
事事事
ALBERR
815
BWAY