________________
******
आवश्यक
उपभोगोऽन्नपानादेः, परिभोगो वस्त्राभरणाङ्गनादेः । इह श्रावकेणोत्सर्गतो निरवद्यभोजिना निरवद्यकर्मणा च भाव्यमतस्तदपेक्षयाऽतीचाराः ।
आ.नि.
निर्बुक्ति:
प्रत्याख्याना'सचित्तं' दाडिमादि, 'सचित्तप्रतिबद्धं' पक्वाम्रादि, 'अपक्वौषधिः' अचालितकणिक्वादिः, दुःप[ष्प ] क्वौषधिः पृथुकादि, तुच्छौषधिः श्रीतिलकाचार्य- ॐ सुकुमारमुद्रफलिकादिः । तद्भक्षणतो एषां नियमितानां नियमितातिरिक्तानां वाऽनाभोगादिना भोगेऽतिचारता, तुच्छौषधिभक्षणे देव लघुवृत्तिः तुष्टिरैहिकश्चापायः ।
यथैकः क्षेत्ररक्षाकृद्भक्षयन्मुद्गशिम्बिकाः । कथञ्चिद्भूभुजा तत्रेयुषा दृष्टोऽथ चिन्तितम् ॥१॥ मुद्रफल्योऽमुनाऽऽद्यन्त, कियत्य इति कौतुकात् । विपाट्यैक्षिष्ट तत्कुक्षिं, फेनमेव व्यलोकयत् ॥ २ ॥
१०७२
अथ कर्मतः । 'अङ्गारकर्म' अङ्गारविक्रयादि । १ । 'वनकर्म' छिन्नाछिन्नवनपत्रादिविक्रयः । २ । 'साडित्ति' शकटवाहनम् । 'भाडित्ति' शकटादीनां भाटकेनार्पणम् ।४ । फोडित्ति सरः कूपादिखननम् 1५। दन्त । ६ । विष ॥७। रस I८ । लाक्षा ।९। केश | १० | वाणिज्यानि । केशशब्देन द्विपदचतुःप[ष्प ] दानि गृह्यन्ते । यन्त्रपीडनकर्म तिलादीनाम् । ११ । निर्लाञ्छनकर्म गवादेर्वृषणछेदनम् ।१२ । दवदानं प्रतीतम् ॥ १३ ॥
१. 'नियमितारिरक्तानां' ख 'नियमातिरक्तानां' ल, 'नियमितातिरक्तानां' प प । उपभुज्यते इति उपभोगः उपशब्दः सकृदर्थे सकृद्धोगः, अथवा अन्तर्भोगः उपभोग:, अत्र उपशब्दोऽन्तर्वचने । उभयथा उपभोगः आहारादेः ग्राह्यः । परिभुज्यते परिशब्दोऽत्र आवृत्ती पुनः पुनर्भागः वस्त्रादेः परिभोगः । * 'दन्तवाणिज्यं' पूर्वमेव पुलिन्द्रेभ्यो मूल्यं ददाति दन्तान् दद्यातेति पश्चात् पुलिन्द्रा हस्तिनो घातयन्ति । एवं धीवराणां शङ्खमूल्यं ददाति । लाक्षावाणिज्येऽपि एत एव दोषास्तत्र कृमयो भवन्ति । 'रसवाणिज्यं कोलालत्वं सुरादि तत्र पाने बहवो दोषाः
ध्ययनम्
भावप्रत्याख्यानम्
********
उपभोगपरिभोगव्रतेऽतिचाराः ।
गाथा - १५६१
१०७२
मारणाक्रोशवद्यादयस्तस्मान्न कल्पते । 'विषवाणिज्यं' विषविक्रयः न कल्पते, तेन बहूनां जीवानां विराधना । केशवाणिज्यं दासीगृहीत्वाऽन्यत्र विक्रीणाति । अत्रापि परवशत्वादयो ऽनेके दोषाः ।। [५६८)