SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः १०४४ सोचे किं ते प्रियं कुर्वे, सुभद्रोवाच तां प्रति । हृत्वापवादं कुर्वीथाः, शासनस्य प्रभावनाम् ।१६। देव्यूचेऽहं प्रगे कृत्वा नगर्यां द्वारबन्धनम् । व्याकुलेष्वथ पौरेषु वक्ष्यामि व्योमनि स्थिता ॥ १७ ॥ त्रिधाऽपि शुद्धशीला स्त्री, चालनीनिहितोदका । त्रिराच्छोटयताद् द्वाराण्युद्धटन्ते यथा क्षणात् ॥१८ । पौरीभिर्वीक्षितेऽन्याभिश्चालन्यामस्थितेऽम्भसि । कुर्वीथास्त्वमिदं यातापवादो भावि ते यशः । १९ । ततस्तथैव सा कृत्वा, त्रिर्द्वारोद्घाटनं पुरः । निवृत्ताऽन्या सती काऽपि, तुर्यमुद्घाटयिष्यति ॥ २० ॥ ततोऽभूत्तत्र जैनस्य, शासनस्य प्रभावना । तत् श्वासुरं च राजा च प्रबुद्धमखिलं पुरम् ॥ २१ ॥ उदितोदितसोदासयोः कथा प्रागुक्ता । सुदर्शन श्रेष्ठभार्याकथा । नगर्यामत्र चम्पायां श्रेष्ठिपुत्रः सुदर्शनः । धार्मिकः श्रावकोऽदत्त, कायोत्सर्गं महर्षिवत् ॥१ ॥ शून्यागारस्मशानादावष्टम्यादिषु पर्वसु । महादेव्यार्थितोऽत्यन्तं दूतीभिर्मन्यते स्म न |२| कायोत्सर्गस्थमन्येद्युस्तत उत्पाट्य दूतिका । निन्ये तं प्रतिमाव्याजादाच्छाद्यान्तः पुरान्तरे ॥३॥ व्याकृतेऽपि निर्बन्धे, मुनिवत्रेच्छति स्म सः । ततः कलकलं चक्रे, राजा तं वध्यमादिशत् ।४। १. 'त्रिद्वार'... ल, छ ख प, प । २. 'साधार्मिकः' ल । श्वसुरस्येदं श्वासुरम्, श्वसुरक्षमित्यर्थः । ******** आ.नि. कायोत्सर्गा ध्ययनम् कायोत्सर्गस्य फलम् (११) सुदर्शन श्रेष्ठिभार्याकथा । गाथा - १५५० १०४४. [५४०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy