________________
आवश्यक।। कायोत्सर्गाध्ययनम् ।।
आ.नि. नियुक्तिः इदानीं कायोत्सर्गाध्ययनम् । अस्य चायं सम्बन्धः प्रतिक्रमणाध्ययनेऽतीचारशुद्धिरुक्ता । तत्राप्यशुद्धो व्रणभेषजकल्पेन प्रायश्चित्तेन *
कायोत्सर्गाश्रीतिलकाचार्य-* शुद्धिः । अतः प्रायश्चित्तान्याह -
ध्ययनम्
प्रायश्चित्ते लघुवृत्तिः __ आलोयण पडिक्कमणे, मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अणव, ट्ठया य पारंचिए चेव ।।१४१८।।।
व्रणस्वरूपः। एतानि दशापि प्रायश्चित्तानि व्रणभेषजानि । व्रणस्तु द्विधा द्रव्यव्रणो भावव्रणश्च । आद्यः शरीरक्षतलक्षणः ।।१४१८ ।। सोऽपि द्विधेत्याह-*
गाथा-१४१८दुविहो कायंमि वणो, तब्भव आगंतउ य नायव्यो । आगंतुगस्स कीरइ, सल्लुद्धरणं न इयरस्स ।।१४१९ ।।
१४२१ तद्भवो गण्डादिः । आगन्तुकः कण्टकादिभवः ।।१४१९ ।। यद्यथोद्धियते तदुत्तरपरिकर्म चाह -
तणुओ अतिक्खतुंडो, असोणिओ केवलं तया लग्गो । उद्धरिउं अवइज्झइ, सल्लो न मलिजइ वणो य ।।१४२०।। 'अवइज्झइ' परित्यज्यते शल्यम् । न मृद्यते व्रणोऽल्पत्वात् । प्रथमशल्यविधिरयम् ।।१४२०।। द्वितीयादिविधिमाह - लग्गुद्धियंमि बीए, मिलिजइ परं अदूरगे सल्ले । उद्धरणमलणपूरण, दूरयरगए तइयगंमि ।।१४२१।।
९९१ 'अदूरगे' दूरमप्रविष्टे लग्नोद्धृते द्वितीयशल्ये व्रणः किञ्चिन्मृद्यते । तृतीये दूरतरगते शल्ये उद्धरणं मर्दनं व्रणस्य । ततः कर्णमलादिना *
[४८७] • पूरणम् ।।१४२१।।
*******