________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
८९०
व्यजिज्ञपत्कूणिकं सा, हाराद्यर्पय देव ! मे । नैच्छद् दत्त स पित्रेति, भाणं भाणं पुनस्तया ।१। कृतोपरोधस्तावूचे, सेचनं दत्त मे गजम् । गृह्यतां मम राज्याछ, हाराद्यं च विभूषणम् ।२। अर्ग्यतां भ्रातृजायायै, शृङ्गारो ह्युचितः स्त्रियाः । एवं करिष्यते देवेत्युक्त्वा मातामहान्तिके ।३। निशायां सपरीवारो, तौ वैशालीं गतो पुरीम् । तं ज्ञात्वा कूणिकोऽमर्षादूचे दूतेन चेटकम् ।४। कुमारो तिष्ठतां प्रेष्यः, सेचनाख्यः करी मम । चेटक: स्माह दौहित्रावेतावपि तवेशवत् ।५। शरणागतयोर्हत्वा, तत्कथं गजमर्पये । आख्यदूतोऽथ गत्वा तत्पुन तेन कूणिकः ।६। चेटकं स्माह युद्धाय, सजः स्या एष एम्यहम् । वाहयामि न वैशाल्यां, रासभेलाङ्गलानि चेत् ।७।। ततोऽहं न भवाम्यार्य !, दौहित्रः कूणिकस्तव । आर्योऽवगुचितं कुर्याः, कालादीन् कूणिकस्ततः ।। आहूय सबलोऽचालीदेकैकस्य च तद्वले । त्रीणि त्रीणि सहस्राणि, रथानां हस्तिनां तथा ।९। तिस्रस्तिस्रोऽर्वतां लक्षा, भटानां कोटयस्तथा । तं ज्ञात्वा चेटकेनापि, मेलिता गणभूभुजः ।१०। अष्टादशैषामपि च, कालादिबलवबलम् । कूणिको गरुडव्यूह, वार्धिव्यूहं च चेटकः ।११। १. 'भवानिव' प, 'तवेशवत्' ल, छ प । • 'तव ईशवत्' तब (दूतस्य) स्वामीवत् (कूणिकवत्) इत्यर्थः । * आर्यः चेटकः । • अर्वत् - अश्वः तेषाम् ।
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहः ग्रहणासेवन
शिक्षाद्वया*55सेविता।(५) * चेटककूणिक
युद्धः। गाथा-१२८४
८९० [३८६]
EKEEKKER