SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः ८८८ पृष्टः स्वाम्यपि तस्यैवमाचख्यो प्राक्तनं भवम् । राजर्षिः कोऽन्तिमो भावीत्यभयः पृष्टवान् प्रभुम् ।७९। स्वाम्युदायनमाचख्यो, व्रतेच्छुरभयस्ततः । न दीयमानमप्यैच्छद्राज्यं पित्राऽथ भूपतिः ।८०। दध्यो दास्यामि साम्राज्यं, कूणिकस्येति सेचनम् । ददौ हल्लस्य हारं च, विहल्लस्य सुरार्पितम् ।८१। नन्दाया क्षोमयुग्मं तत्कुण्डलं द्वितयं तथा । व्रतायाऽभ्युद्यते पुत्रे, दत्वा हल्लविहल्लयोः ८२। महोत्सवेन प्रावाजीसीनन्देयः समातृकः । कालाद्यैः कूणिकोऽन्येद्युः, कुमारैर्दशभिः समम् ।८३। अमन्त्रयनृपं बद्ध्वा राज्यं भागेन गृह्यते । तैः प्रपन्ने नृपं बद्ध्वा, राज्य स्वयमशिश्रियत् ।८४ । नित्यं कशाशताघातं, पापो दापयते पितुः । भक्तं न्यवारयन्नाऽदाञ्चिलणायाश्च दर्शनम् ।।५।। मद्येन तीमितेः केशेर्बद्ध्वा कुल्माषपिण्डिकाम् । प्रविश्य चिल्लणा कृच्छ्राद्दत्ते श्रीश्रेणिकस्य ताम् ।८६ । केशांश्चाऽक्षालयन्नीरे, मद्यीभूतं स तत् पपी । न तथा वेदनां वेद, तत्प्रभावादथान्यदा ८७। पद्यावतीभुवोदायिनानोत्सङ्गस्थसूनुना । कूणिकस्याऽश्रतो राज्ञः, स्थालान्तर्मूत्रिते सति ।८८। तदनं परतः कृत्वा, शेष भोक्तुं प्रचक्रमे । ऊचेऽम्बां मातरन्यस्याऽपीदृक् पुत्रोऽस्ति किं प्रियः? ८९ । • परमात्मा महावीरः । * सोनन्देयः - अभयः । • मद्यप्रभावात् इत्यर्थः । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्यो द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता(५) सेचनकहस्ती। गाथा-१२८४ ८८८ [३८४]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy