SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ७७२ ******** 'द्वाभ्यां बन्धनाभ्यां' कर्मबन्धहेतुभ्याम् । केन केन ? रागबन्धनेन द्वेषबन्धनेन च । 'प्रतिक्रमामि त्रिभिर्दण्डैः' - दण्ड्यते चारित्रधनापहारेणाऽमीभिरात्मेति दण्डाः । उत्पथस्था मनोवाक्कायास्तैस्त्रिभिः । मनोदण्डे - वृद्धः कोङ्कणकः साधुरूर्ध्वजानुरधः शिराः । चिन्तयन्त्रस्ति तं दृष्ट्वा, साधवोऽन्ये सविस्मयाः | १ | अहो क्षान्तः शुभध्यानीत्याऽऽनम्याऽस्थुस्तदग्रतः । चिरेण विरतो ध्यानान्मुनिभिः पृच्छ्यते स्म सः | २ | किं त्वयैतावतीं वेलामचिन्तीत्यथ सोऽवदत् । खरो वात्यधुना वातः, साम्प्रतं वल्लराणि चेत् ॥३ | क्षेत्रे प्रज्वालयन्ति स्वे, यदि ते मम सूनवः । तेषां वर्षागमे जाते, सरसायां ततो भुवि ॥४॥ भूयसी शालिसंपत्तिर्भवेदिति विचिन्तितम् । वारितो गुरुभिः साधो !, नेदृक् चिन्त्यमतः स्थितः ॥ ५ । एवमाद्यशुभा चिन्ता मनोदण्डोऽभिधीयते । वाग्दण्डे - साधुः कश्चिदगीतार्थो, बहिर्भूमेः समागतः । आचार्याणामविधिना, तदाऽऽलोचितवानिदम् ॥१ ॥ व्यलोकि शौकरं वृन्दं, कान्दिशीकं बहिर्मया । तच्छ्रुत्वाऽभ्येत्य संजहे, कैश्चिद्वाग्दण्ड इदृशः ॥ २ । कायदण्डे दृष्टान्तः - आचार्यश्चण्डरुद्राख्यः, प्रकृत्यैवातिरोषणः । उज्जयिन्यां महापुर्यामुद्याने समवासरत् ॥१ ॥ ****** आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या । मनोदण्डे वाक्कायदण्डे दृष्टान्तः । गाथा - १२७१ ७७२ [२६८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy