SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * क्रियाविशेषा यस्यां सा 'सर्वमिथ्योपचारा,' तया । सर्वे धर्माः कर्तव्यव्यापारास्तेषामतिक्रमणं लङ्घनं यस्यां सा 'सर्वधर्मातिक्रमणा',* नियुक्ति: तया । एवंभूतया 'आशातनया' यो 'मयातिचारो'ऽपराधः ‘कृतो' विहितः तस्यातिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिकं 'प्रतिक्रामामि'* * अपुनःकरणेन निवर्ते इति निष्ठाकालः, तथा दुष्टकर्मकारिणं 'निन्दामि' आत्मानं भवोद्विग्नेन प्रशान्तेन चेतसा तथा 'गहे' - आत्मानं * लघुवृत्तिः * दुष्टकर्मकारिणं युष्मत्साक्षिकम् । 'व्युत्सृजामि' आत्मानं दुष्टकर्मकारिणं तदनुमतित्यागेन । इत्थं शिष्यासंमोहार्थं सूत्रार्थो केवलो दर्शितः। * अथ सूत्रस्पर्शकगाथया दर्शयन्नाह - * इच्छा य अणुनवणा, अव्वाबाहं च जत्तजवणाय । अवराहखामणावि य, छट्ठाणा हुंति वंदणए ।।१२१९ ।। ७३३ - एतानि षट् स्थानानि सूत्रव्याख्यायां दर्शितानि ।।१२१९ ।। तत्रेच्छा षोढेत्याह - * नाम ठवणा दविए, खित्ते काले तहेव भावे य । एसो खलु इच्छाए, निक्खेवो छब्बिहो होइ ।।१२२० ।। * नामस्थापने गतार्थे । द्रव्येच्छा सचित्तादिद्रव्याभिलाषः । अनुपयुक्तस्य वेच्छामीत्येवं भणतः । क्षेत्रेच्छा मगधादिक्षेत्राभिलाषः । कालेच्छा* * रजन्यादिकालाभिलाषः । रयणिमभिसारिया उ, चोरा परदारिया य इच्छंति । तालायरा सुभिक्खं, बहुधन्ना केइ दुभिक्खं ।।१।। भावेच्छा * *प्रशस्ता ज्ञानाद्यभिलाषः । अप्रशस्ता स्त्र्याधभिलाषः । अत्र तु भावेच्छयाधिकारः ।।१२२०।। अनुज्ञापि षोढेत्याह - आ.नि. वन्दनकनियुक्तिः सूत्रालापकनिष्पन्ननिक्षेपाः । 'इच्छा '। गाथा-१२१९ १२२० * ७३३ [२२९] ******
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy