________________
fa
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* .: लघुवृत्तिः
準準準準準準準準準業
पणया पातनिवा, दंसियमित्ते जिणंमि तेण नमी ।
आ.नि. मिथिलायां रिपुवेष्टितायां गर्भस्थे प्रभो राज्ञी अट्टालकेऽधिरूढा तां दृष्ट्वा शत्रवः प्रणताः, ततो नमिः ।
* चतुर्विशतिस्तवः
* जिननामान्वर्थः। रिट्ठरयणं च नेमि, उप्पयमाणं तओ नेमी ।।१०९०।।
गाथा-१०९०गर्भस्थेऽस्मिन् मात्रा रिष्टरत्नमयो महान्नेमिरुत्पतन् स्वप्ने दृष्टः इति रिष्टनेमिः । अपश्चिमादिशब्दवन्नपूर्वत्वे त्वरिष्टनेमिः ।।१०९०।।
१०९१ सप्पं सयणे जणणी, जं पासइ तमसि तेण पासजिणो । सप्तफणो नागः शवने मात्रा गर्भस्थेऽस्मिन् स्वप्ने दृष्टः । अथवा निशि शयनीयस्था तमस्यपि माता सर्प पश्यति स्मेति निरुक्त्या पार्श्वः ।
वद्धइ नायकुलंति य, तेण जिणो वद्धमाणुत्ति ।।१०९१।। एवं च कीर्तयित्वा चित्तशुद्धये प्रणिधानमाह - ‘एवं मए अभिथुया' इत्यादि । एवं पूर्वोक्तप्रकारेण मयाऽभिष्टुताः, नामभिः कीर्तिताः । किं विशिष्टा ? विधूतरजोमलाः । बध्यमानं *
[१७४] • नेमिः - चक्रधारा, तम् ।
६७८
RRRY RER
६७८
REEXXX