________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघु-वृत्तिः
४९५
**
ततः प्रविश्य सोधान्तर्दत्तस्तस्थौ दिनानि षट् । षष्ठोऽपि दिवसस्तेन ज्ञातः सप्तम इत्यथ ।१२ । मार्गानशोधयत् सायं तलारक्षैररक्षयत् । निशान्ते मालिकः कोऽप्याऽऽगच्छन् संज्ञाऽऽतुरोऽभवत् । १३ । व्युत्सृज्य राजमार्गे द्राक् पिधाय कुसुमैरगात् । दत्तोऽपि निर्ययौ राजपाटिकां सप्तमेऽहनि ॥१४ ॥ मार्गे चाश्वखुरोत्क्षिप्तस्तस्याऽऽस्येऽगाल्लवोऽशुचेः । तेनाऽभिज्ञानतो ज्ञातं मृत्युरद्य स्फुटं मम ॥ १५ ॥ प्रधानैश्चेति सङ्केतः कृतोऽग्रेऽस्त्यद्य दुर्मदम् । धृत्वाऽमुं स्थापनीयोऽत्र राजा प्राक्तन एव सः । १६ । दत्तः सौधान्तरे नष्टुं ववलेऽथ सपद्यपि । ततः सङ्केतमज्ञासीत्प्रधानैरिति शङ्कितम् ॥१७॥
ततः सौधेऽविशंस्तैः स धृतो मौलः कृतो नृपः । राज्ञा तेनाऽथ दुष्टः स क्षिप्तः कुम्भ्यां शनैः सह । १८ । अधः प्रज्वालितो वह्निस्तापात्तैरथ स श्वभिः । खण्ड्यमानोऽभवन्मृत्वा रौद्रध्यानेन नारक: ।१९। ।।८६९-८७० ।। अमुमेवार्थमाह -
दत्तेण पुच्छिओ जो जन्नफलं कालओ 'तुरमिणीए । समयाइ आहिएणं सम्मं उदियं भयंतेणं ।।८७१ । । 'समतया' माध्यस्थेन, हेतुना, आहितेन 'हिंट् प्रयोजने' प्रयुक्तेन प्रेरितेन । तद्भयमवज्ञाय सम्यगुदितं भदन्तेन । एवं सम्यग्वादः कार्यः १. ऽऽगच्छत् - ख ल, २.तुरिमिणीए' ल, ३. माध्यस्थ्येन ख । • मौलः नृपः - प्राक्तनराजा ।
***************************
आ. नि.
सा. नि. निरुक्तिद्वारम् सम्यग्वादे
कालिकाचार्य कथा |
गाथा - ८७१ ४९५